SearchBrowseAboutContactDonate
Page Preview
Page 961
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१६० चरक-संहिता। [विधिकित्सितम् विषवेगान्मदमूर्छाविषादहृदयद्रवाः प्रवत्तन्ते। शीतैर्निवर्तयेत् तान् न वीज्यश्च लोमहर्षः स्यात् ॥ तरुरिव मूलच्छेदाद दंशच्छेदान्न वृद्धिमेति विषम् । आचूषणमानयनं जलस्य सेतुर्यथा तथारिष्टाः ॥ १७॥ त्वङ मांसगतो दाहो दहति विषं लावणं हरति रक्तात् । पोतं वमनैः सद्यो हरेद् विरेकैद्वितोये तु॥ वायुरिवाग्नेरग्नेर्वायुरिव तत् तु शीतप्रदेहसेकैः स्कन्दति स्त्यानीभवति तस्मिन् विषाधाने रक्ते स्कन्ने स्त्याने सति विषवेगो व्यपयाति । इति रक्तमोक्षणफल मुक्त्वा व्यजनमाह-विषवेगादित्यादि। मदादयो विषवेगात् प्रवर्त्तन्ते जायन्ते। तान् मदादीन् शीतद्रव्यैः परिषेकादेभिः निवत्तयेत्। वीज्यश्च न लोमहर्षः स्यात् । तरुरिवेत्यादि। मूलच्छेदाद यथा तरुन वृद्धिमेति तथा दंशच्छेदाद दंशस्थानोत्कर्त्तनाद विषं न वृद्धिमेति । आचूषणमानयनमतो न विषं देहे वत्तते। जलस्य वेगेन गच्छतो यथा सेतुर्गतिनिरोधकृत् तथाऽरिष्टा मन्त्रेण बद्धा विषगतिनिरोधिन्य इति । सुश्रुतेऽरिष्टावन्धनमुक्तम् । “अरिष्टामपि मन्त्रैश्च वनीयान्मन्त्रकोविदः। सा तु रज्ज्वादिभिवेद्धा विषप्रतिफरी मता ॥ देवब्रह्मर्षिभिः प्रोक्ता मन्त्राः सत्यतपोमयाः। भवन्ति नान्यथा क्षिप्रं विषं हन्युः मुदुस्तरम् ॥ विषं तेजोममन्त्रैः सत्यब्रह्मतपोमयः। यथा निवार्यते क्षिप्रं प्रयुक्तैर्न तथौषधैः॥ मन्त्राणां ग्रहणं कायं स्त्रीमांसमधुवजिना। जिताहारण शुचिना कुशास्तरणशायिना॥ गन्धमाल्योपहारैश्च वलिभिश्चापि देवताः। पूजयेन्मन्त्रसिद्धार्थ जपहोमेश्च यत्नतः ।। मन्त्रास्तु विधिनाप्रोक्ता हीना वा स्वरवर्णतः। यस्मान्न सिद्धिमायान्ति तस्माद योज्योऽगदक्रमः ॥ समन्ततः सिरा दंशाद विध्येत् तु कुशलो भिषक् । शाखाग्रे वा ललाटे वा वेध्यास्ता विसृते विषे। रक्ते निहि यमाणे तु कृच्छ निहि यते विषम् । तस्माद विस्रावयेद् रक्तं सा ह्यस्य परमा. क्रिया” इति ॥१७॥ . गङ्गाधरः-खङ मांसत्यादि। खङमांसगतं विर्ष दाहो दहति । रक्तस्य लावणं रक्ताद विषं हरति। पीतं विषं सद्यस्तत्क्षणं घमनैहरेत्। द्वितीये तु स्थिरं भवति । तरुरिवेत्यादिना च्छेदादीनां विषहरोपपत्तिमाह। सेतुर्यश् ति विषविरोधक इत्यथः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy