SearchBrowseAboutContactDonate
Page Preview
Page 955
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri ka . ३१८४ चरक-संहिता। [विषचिकित्सितम् कलभको वरटी पत्रवृश्चिकः। विनासिका ब्रह्मणिका बिन्दुलो भ्रमरस्तथा। बााकी चिप्पिटः कुम्भी वर्चः कीटोऽरिमेदकः। पनकीटो दुन्दुभिको मकरः शतपादकः। पञ्चालकः पाकमत्स्यः कृष्णतुण्डोऽथ गर्द्धभी। क्लीतः क्रिमिसरारी च यश्चाप्युत्क्लेशकः स्मृतः। एते ह्यग्निप्रकृतयश्चतुर्विशतिः रीरिताः। तैर्भवन्तीह दष्टानां रोगाः पित्तनिमित्तजाः॥ विश्वम्भरः पञ्चशुक्तः पञ्चकृष्णोऽथ कोकिलः। संरेयकः प्रचलको वलभः किटिमस्तथा। सूचीमुखः कृष्णगोधा यश्च काषायवासिकः। कीटगर्द्धभकश्चैव तथा त्रोटक एव च । त्रयोदशैते सौम्याः स्युः कीटाः श्लेष्मप्रकोपणाः ॥ तैर्भवन्तीह दष्टानां रोगाः कफनिमित्तजाः ॥३॥ तुङ्गीनासो विचिलकस्तालको बाहकस्तथा। कोष्ठागारी क्रिमिकरो यश्च मण्डलपुच्छकः। तुङ्गनाभः सर्वपिकोऽवल्गुली शम्बुकस्तथा। अग्निकीटाश्च घोराः स्युादश प्राणनाशनाः॥ तैर्भवन्तीह दष्टानां वेगशानानि सर्पवत्। तास्ताश्च वेदनास्तीवा रोगा वै सान्निपातिकाः। क्षारामिदग्ध वदंशो रक्तपीतासितारुणः। ज्वराङ्गमदरोमाञ्चवेदनाभिः समन्वितः। छईप्रतीसारतृष्णाश्च दाहो मोहो विजृम्भिका। वेपथुश्वासहिकाश्च दाहः शीतञ्च दारुणम् । पिड़कोपचयः शोफो ग्रन्थयो मण्डलानि च। दद्रवः कर्णिकाश्चैव विसर्पाः किटिमानि च। तैर्भवन्तीह दष्टानां यथास्वञ्चाप्युपद्रवाः ॥ येऽन्ये तेषां विशेषास्तु तूर्णं तेषां समादिशेत्। दृषीविषप्रकोपाच्च तथैव विषलेपनात्। लिङ्गं तीक्ष्णविषेष्वेतच्छणु मन्दविषेष्वतः॥ प्रसेकोऽरोचकश्छदिशिरोगौरवशीतताः। पिड़काकोठकडूनां जन्म दोषविभागतः॥ योगैर्नानाविधेरैषां चूर्णानि गरमादिशेत्। दृषीविषप्रकाराणां तथैवाप्यनुलेपनात् ॥ एकजातीनत ऊद्ध कीटान् वक्ष्यामि भेदतः। सामान्यतो दष्टलिङ्गैः साध्यासाध्यक्रमेण च॥ त्रिकण्टकः कुणी चापि हस्तिकक्षोऽपराजितः। चखार एते कलमा व्याख्यातास्तीत्रवेदनाः॥ तैर्दष्टस्य श्वयथुरङ्गमद्दो गुरुता गात्राणां दंशश्च कृष्णो भवति ॥१॥ प्रतिसूर्यः पिङ्गभासो बहुवर्णो महाशिराः। तथा निरुपमश्चापि पश्चगाधेरकाः स्मृताः॥ तैभेवन्तीह दष्टानां वेगशानानि सर्पवत् । रुजश्च विविधाकारा ग्रन्थयश्च सुदारुणाः ॥२॥ गलगोली श्वेता कृष्णा रक्तराजी रक्तमण्डला सर्वश्वेता सपिकेत्येव षट्। ताभिर्दष्टे सर्षपिकावज्ज दाहशोफक्लेदा भवन्ति । सर्पपिकया हृदयपीडाऽतिसारश्च ॥३॥ शतपद्यस्तु परुषा कृष्णा चित्रा कपिलिका रक्ता श्वेताऽग्निप्रभाचेत्यष्टौ। ताभिर्दष्टे शोफो वेदना दाहश्च हृदये। श्वेतानिप्रभाभ्यामेतदेव दाहो मूर्छा चातिमात्रं श्वेतपिड़कोत् For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy