SearchBrowseAboutContactDonate
Page Preview
Page 954
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३श अध्यायः ] चिकित्सितस्थानम्। ३१८३ पूर्ववत् ॥२॥ राजिमतां प्रथमे वेगे विषं शोणितं दृषयति। तत् प्रदुष्टं पाण्डतामुपैति, तेन लोमहर्षः शुक्लावभासश्च पुरुषो भवति। द्वितीये मांसं दूषयति, तेन पाण्डुतात्यर्थं जाड्य शिरःशोफश्च भवति। तृतीये मेदो दूषयति, तेन चक्षुर्ग्रहणं दन्तक्लेदः स्वेदो घ्राणाक्षिस्रावश्च भवति। चतुर्थे कोष्ठमनुप्रविश्य मन्यास्तम्भं शिरोगौरवश्चापादयति। पञ्चमे वाक्सङ्गं शीतज्वरश्च करोति। षष्ठसप्तमयोः पूर्ववदिति ॥ भवन्ति चात्र। “धावन्तरेषु याः सप्त कलाः सम्परिकीर्तिताः। तास्वेकै कामतिक्रम्य वेगं प्रकुरुते विषम् ॥ येनान्तरेण हि कलां कालकल्पं भिनत्ति हि । समीरणेनोह्यमानं तत् तु वेगान्तरं स्मृतम् ॥ शूनाङ्गः प्रथमे वेगे पशुायति दुःखितः। लालास्रावो द्वितीये तु कृष्णाः पीड्यते हृदि॥ तृतीये च शिरोदुःखं कण्ठग्रीवश्च भज्यते। चतुथ वेपते मूढः खादन् दन्तान् जहात्यमून् ॥ केचिद्वेगत्रयं प्राहुरन्तश्चैतेषु तद्विदः॥ ध्यायति प्रथमे वेगे पक्षी मुह्यत्यतः परम् । द्वितीये विह्वलः प्रोक्तस्तृतीये मृत्युमृच्छति ॥ केचिदेकं विहङ्गेषु विषवेगमुशन्ति हि। मार्जारनकुलादीनां विषं नातिप्रवर्त्तते”॥ इति। “पूर्वमुक्ताः शुक्रविषा मूषिका ये समासतः। नाम लक्षणभैषज्यैरष्टादश निवोध तान् ॥ लालनः पुत्रकः कृष्णो हंसिकश्चिकिरस्तथा। छुच्छुन्दरोऽलसश्चैव कषायदशनोऽपि च। कुलिङ्गश्चाजितश्चैव चपलः कपिलस्तथा। कोकिलोऽरुणसङ्गश्च महाकृष्णस्तथोन्दुरः। श्वेतेन महता सार्द्ध कपिलेनाखुना तथा। मूषिकश्च कपोताभस्तथैवाष्टादश स्मृताः॥ शुक्रं पतति यत्रैषां शुक्रघृष्टः स्पृशन्ति वा। नखदन्तादिभिस्तस्मिन् गाने रक्तं प्रदुष्यति। जायन्ते ग्रन्थयः शोफाः कर्णिका मण्डलानि च। पिड़कोपचयश्चोग्रा विसर्पाः किटिमानि च । पर्बभेदोरुजस्तीवा ज्वरो मूर्छा च दारुणा। दौर्बल्यमरुचिः श्वासोवमथुर्लोमहर्षणम् ॥ दष्टरूपं समासोक्तमेतद् व्यासेन वक्ष्यते॥ अथातः कीटा उच्यन्ते सर्पाणां शुक्रविण्मूत्रशवपूत्यण्डसम्भवाः । वाय्वन्यम्बुप्रकृतयः कीटास्तु विविधाः स्मृताः॥ सवेदोषप्रकृतिभिर्युक्ताश्चा. परिणामतः। कीटत्वेपि सुघोरास्ते सर्व एव चतुर्विधाः॥ कुम्भीनसस्तुण्डि. केरी शृङ्गी शतकुलीरकः। उचिहिङ्गोऽमिनासा च चिचिहिङ्गो मयूरिकाः। आवर्तकस्तथोरभ्रसारिकामुखवैदलो। शरावकुर्दोऽभीराजी परूषश्चित्रशीर्षकः। शतबाहुश्च यश्चापि रक्तराजिः प्रकीर्तितः। अष्टादशेति वायव्याः कीटाः पवनकोपनाः॥ तैभेवन्तीह दष्टानां रोगा वातनिमित्तजाः॥ कौण्डिल्यकः For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy