________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वाविंशोऽध्यायः। अथातस्तृष्णाचिकित्सितं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ ज्ञानप्रशमतमोभिः ख्यातोऽत्रिसुतो जगद्धितेऽभिरतः। तृष्णानां प्रशमार्थ चिकित्सितं प्राह पञ्चानाम् ॥२॥ क्षोभाद् भयाच्छमादपि शोकात् क्रोधाद् विलनान्मयात् । क्षाराम्ललवणकटुकोष्णरूक्षशुष्कान्नसेवाभिः ।। धातुक्षयगदकर्षणवमनायतियोगसूर्यासन्तापैः । पित्तानिलो प्रवृद्धौ सौम्यं धातं विशोषयतः * ॥ गङ्गाधरः-उद्दिष्टक्रमादेतदध्यायानन्तरं तृष्णाचिकित्सितमाह-अथात इत्यादि। सब पूर्ववद व्याख्येयम् ॥१॥
गङ्गाधरः-ज्ञानेत्यादि। अत्रिसुतः कृष्णात्रिपुत्रः पुनव्वसुः। पश्चानां तृष्णानाम्। अष्टोदरीये प्रागुक्तं पञ्च तृष्णा इति। पञ्च तृष्णा इति बातपित्तामक्षयोपसर्गात्मिका इति। तासां पञ्चानां तृष्णानामिति ॥२॥
गङ्गाधरः-क्षोभादित्यादि । क्षुभसञ्चलने मनःशरीरयोः क्षोभः क्लेशजनकचालनम्। क्षाराम्लादिशुष्कानसेवाभिः। गदकर्षणं रोगान्तरेण कर्षणम् ।
चक्रपाणिः-विसर्प प्रायेण तृष्णा उपद्रवरूश भवति इति विसर्पानन्तरं तृष्णाचिकित्सितमुच्यते ॥१॥
चक्रपाणिः-ज्ञानं विज्ञानम्। प्रशमः शान्तिः। तपश्चान्द्रायणादि। चिकित्सितं चिकित्साविधायको ग्रन्थः। निदानाद्यभिधानञ्च चिकित्सार्थमेव निदानादिज्ञानपूर्वकत्वाचिकित्साया। पञ्चानामिति वचनेम पञ्चानामपि चिकित्साविषयत्वं दर्शयति । न हि कासश्वासवदस्यासाध्यत्वम् । तथा सुश्रुतोक्तनिरुक्तिः पञ्चस्वपि तृष्णासु भवति। उक्तं हि सुश्रुते-तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात् तथाह्यामसमुद्भवा च । स्यात् सप्तमी भक्तनिमित्तजा चेति ॥२॥
चक्रपाणि:-क्षोभादित्यादाक्तनिदानस्य योगात् वातपित्तकर्तृत्वं चोन्नेयम् । पित्तानिलाविति सर्वतृष्णासम्प्राप्तिग्रन्थः। सौम्यान् धातूनिति सोमगुणातिरिक्तान्। प्रदूषयतः इति
* सौम्यान धातून प्रदूषयतः इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only