SearchBrowseAboutContactDonate
Page Preview
Page 921
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१५० चरक-संहिता। [विसर्पचिकित्सितम् विशेषदोषवैशेष्यान्न च नोक्तः समासतः। समासव्यासनिहेंशैरुक्तञ्चैतचिकित्सितम् ।। ४७॥ तत्र श्लोकाः। निरुक्ता नामभेदाश्च दोषा दूष्याश्च हेतवः। आश्रयो मार्गतश्चैव विसई गुरुलाघवम् ॥ लिङ्गान्युपद्रवा ये च यल्लक्षण उपद्रवः । साध्यत्वं न च साध्यत्वं साधनञ्च यथाक्रमम् ॥ इति पिप्रीषवे छ सिद्धमग्निवेशाय धोमते। पुनर्वसुरुवाचेदं वीसाणां चिकित्सितम् ॥ ४८ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढ़बलप्रतिसंस्कृते चिकित्सितस्थाने विसर्परोगचिकित्सितं नाम एकविंशोऽध्यायः॥ २१॥ वातपित्तकफरक्तसाधारणमेतचिकिसितमुक्त दोषवैशेष्यान्न च विशेष उक्तः । न च समासतोऽप्युक्तः। समासव्यासनिर्देशैश्चिकित्सितञ्चैतदुक्तमिति ॥४७॥ गाधरः-अध्यायार्थमाह-तत्र श्लोका इति। निरुक्ता इत्यादि । पिप्रीषवे प्रेतुमिच्छवे ॥४८॥ अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते। अप्राप्ते तु दृढ़बल प्रतिसंस्कृत एव च। चिकित्सिते विसर्पाणामध्याये त्वेकविंशके । वद्यगङ्गाधरकृते जल्पकल्पतरौ पुनः। चिकित्सास्थानजल्पे तु षष्ठस्कन्धे विसर्पिणाम् । चिकित्सित जल्पो नाम शाखेयमैकविंशिकी ॥२१॥ चक्रपाणिः-विसप रक्तमोक्षणस्तुतिमाह-यानीत्यादि । रक्तमोक्षणे एव कुतः प्राधान्यमित्याहविसर्पो नेत्यादि। साधारणमिति वातकफविसर्प रक्तपित्तहरं चिकितसितं युक्तमित्यशः ॥ ४७ ॥ चक्रपाणिः-निरुक्तमित्यादिसंग्रहः। यल्लक्षण उपद्रव इति यादृकलक्षणेनोपद्वेण न साध्यमित्यर्थः। पिप्रक्षवे प्रष्टुमिच्छवे ॥ ४८ ॥ इति महामहोपाध्याय-चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां विसपचिकित्सितं नाम एकविंशोऽध्यायः ॥२१॥ * पिप्रक्षवे इति चक्रसम्मतः पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy