SearchBrowseAboutContactDonate
Page Preview
Page 865
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०६४ चरक-संहिता। [अतीसारचिकित्सितम् कल्कस्तिलानां कृष्णानां शर्करापञ्चभागिकः । आजेन पयसा पीतः सद्यो रक्तं नियच्छति ॥ ४२ ॥ पलं वत्सकवीजस्य श्रपयित्वा रसं पिबत्। यो रसाशी जयेच्छीघ्र स पैत्तं जठरामयम् ॥४३॥ पीत्वा सशर्करालौद्र चन्दनं तण्डुलाम्बुना। दाहतृष्णाप्रमेहेभ्यो रक्तस्रावाच मुच्यते ॥४४॥ गुदो बहुभिरुत्थानैर्यस्य पित्तेन पच्यते। सेचयेत् तं सुशीतेन पटोलमधुकाम्बुना ॥ पञ्चवल्कमधूकानां रसैरिक्षुरसैघृतैः।। छागैर्गव्यैः पयोभिर्वा शर्कराक्षौद्रसंयुतैः॥ ट्रव्याण्येकीकृत्य पीतम्। पीत इत्यादि। प्रियमुखक्कल्कः। कल्क इत्यादि। निस्तुषाणां कृष्णतिलानां कल्क एकभागः, पञ्च भागाः शर्करायाः; एकीकृत्य आजेन पयसा पीतः। शर्करापश्चभागिक इत्यत्र शर्कराभागसंयुत इति च कचित् पाठस्ततः समः शर्कराभाग इति ॥४२॥ गङ्गाधरः-पलमित्यादि। वत्सकवीजस्य पलमष्टगुणे जले पत्त्या चतुर्थीशशेष रसं पिबेत् । पीला यो मांसरसाशी स्यात् स शीघ्र पत्तं जठरोमयं जयेत् ॥४३॥ गङ्गाधरः-पीत्वेत्यादि। चन्दनं रक्तचन्दनमेव ॥४४॥ गङ्गाधरः-गुद इत्यादि । बहुभिरुत्थानैर्वारंवारं विविसर्गः पित्तेन यस्य गुदः पच्यते, पटोलपत्रमधुकयोः काथेन सुशीतेन तस्य तं गुदं जलशौचादिषु सेचयेत् । पञ्चवल्कलमधुकवल्कलानां रसैर्वा सेचयेत् । इक्षुरसैर्वा छागवा चक्रपाणिः-कृष्णमृदिरयादौ रुधिरं शोणितम्, केचित् कुङ्कुममाहुः। शर्करापञ्चभागिक इत्यत्र शर्करापञ्चमभागेन कृष्णतिलदानम्। उक्तं हि जतूकणे-कृष्णतिलान् शर्करापादिकान् छागीपयसेति ॥ ४२ ॥ चक्रपाणिः-पल मित्यादौ रसमिति क्वाथम्। रसाशीति मांसरसभुञ्जानः। इक्षुरसैप तै For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy