SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८श अध्याय: चिकित्सितस्थानम् । ३०५६ मांसोचितेभ्यः क्षामेभ्यो लावादीनां रसा हिताः। तृष्णार्तानां पयश्लागं शरमूलादिभिः शृतम् ॥ रक्त स्रोतोभ्य आस्याद वाप्यागते क्षोरजं घृतम् । पानं नस्यं यवागूर्वा श्रान्ते दामे हतानले ॥ स्तम्भायासेषु महती मात्रां वा सर्पिषः पिबेत् । कुर्य्याद वा वातरोगघ्नं पित्तरताविरोधिनम् ॥ ५४॥ निवृत्ते क्षतदोषे तु कफे वृद्ध उरः क्षते। दाल्यते कासिनो यस्य स धूमान् ना पिबेदिमान् ॥ द्वे मेदे मधुकं द्वे च बले तैः चौमलक्तकः । वर्तितैर्धममापीय जीवनीयघृतं पिबेत् ॥ मनःशिलापलाशाज-गन्धात्वकक्षीरिनागरः। भावयित्वा पिबेत् क्षौमं ससितेक्षुगुड़ोदकम् ॥ सति तेभ्यः क्षतकासिभ्यो मांसोचितेभ्यो मांसाहाराभ्यासवद्भयः क्षामेभ्यः क्षीणेभ्यो लावादीनां विष्किराणां मांसरसा हिताः। तृष्णेत्यादि। क्षतकासिनां तृष्णार्तानां शरमूलादिपञ्चमूलैः शृतं छागं पयो हितम् । रक्त इत्यादि। स्रोतोभ्यो नासादिरन्ध्र भ्य आस्याद् वा रक्ते आगते क्षीरज घृतं पानं नस्यं हितम्। श्रान्ते क्षामे हतानले यवागू; हिता। स्तम्भेत्यादि। स्तम्भे देहस्यायासेषु च सपिषो महती मात्रां पिवेत्। पित्तरक्तयोरविरोधिनं वातरोगनमौषधं वा कुर्यात् ॥५४॥ गङ्गाधरः-निवृत्त इत्यादि। उरःक्षते क्षतदोषे क्षते च निवृत्ते तदनुबन्धवातपित्ते दोषे च निवृत्ते सति कफे वृद्धे कासिनो यस्य तदुरो वक्षः क्षते क्षतस्थाने दाल्यते स ना पुरुष इमान् वक्ष्यमाणान् धूमान पिबेत् । द्वे मेदे इत्यादि। मेदाद्वयादिकं पिष्ट्वा क्षौमालक्तकैर्वतितैर्वतिं कृता धृममापीय अनु जीवनीयघृतमोजोरक्षार्थ पिबेत् । मनःशिलेत्यादि । पलाशस्य वीजम्, अजगन्धा जीवनीयं सर्पिर्वातरक्ते वक्ष्यमाणम्। महती मातामिति अहोरात्रेण परिणमनीयां प्रायोइष्टपलप्रमाणाम् ॥ ५४॥ चक्रपाणिः-निवृत्ते क्षतदोषे इति क्षतवणे शान्ते क्षौमलतकैर्वतितैरिति यथोक्तौषधेन For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy