SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ अध्यायः । चिकित्सितस्थानम् । ३०२५ खराश्वोष्ट्रवराहाणां मेषस्य च गजस्य च। . शकुद्रसं बहुकफेष्वेकैकं मधुना पिबेत् ॥ क्षारं वाप्यश्वगन्धाया लिह्यान्ना क्षौद्रसपिषा। मयूरपादनालं वा शललं शल्लकस्य च ॥ श्वाविद्रोहकचाषाणां ® लोमानि कुररस्य च । एकद्विशफशृङ्गाणि चस्थिीनि खुरांस्तथा ॥ समस्तान्येकशो वापि दग्ध्वा चौद्रघृतान्वितम् । चूर्ण लिहन् जयेत् कासं हिक्कां श्वासश्च दारुणम् ॥ एते हि कफसंरुद्ध-गतिप्राणप्रकोपहाः । तस्मात् तन्मार्गशुद्धार्थ देया लेहा न निष्कफे ॥ ३७॥ कासिने छर्दनं दद्यात् स्वरभेदे च बुद्धिमान् । वातश्लेष्महरैर्युक्तं तमके तु विरेचनम् ॥ मधुकपिप्पलीमूलयोश्चूर्ण गुड़ो गोमयरसश्च क्षौद्रं घृतं सर्व सममेकीकृत्य खादत श्वासादिकानां हितम् ॥३६॥ गङ्गाधरः-खरेत्यादि। खरादीनां शकुद्रसमेकैकं बहुकफे श्वासे मधुना पिबेत्। क्षारं वेत्यादि । अश्वगन्धायाः भस्म जले स्रावयित्वा स्थापयेत्, तत्र तलस्थं संहतं क्षारं श्वासी ना पुमान् क्षौद्रसर्पिषा लिहेत् । मयूरपादस्य नालं दग्ध्वा क्षारं कृता मधुसर्पिषा लिहेत्। अथवा शल्लकस्य शललं कण्टकं दग्ध्वा भस्म मधुसपिषा लेहये। एकेत्यादि। एकशफा अश्वादयो द्विशफा गवादयस्तेषां शृङ्गाणि चाण्यस्थीनि खुरांच समस्तानि एकशो वापि दग्ध्वा क्षोद्रघृतान्वितं चूर्ण लिहन कासादीन् जयेत् । एते हीत्यादि। हि यस्मात् एते लेहाः कर्फन संरुद्धातः प्राणस्य प्रकोपहाः, तस्मात् तस्य प्राणस्य मार्गरोधककफशुद्धार्थ लेहा एते देया न तु निष्कफे देया इति ॥ ३७॥ गङ्गाधरः -कासिन इत्यादि। श्वासवते कासिने छईनमौषधं दद्यात् । चक्रपाणिः-मयूरपादमिति । नालं मयूरस्येव पृथगेव प्रस्थमानम् । शकलमिति मत्स्यशकला. कारम् । जाण्डको मरुदेशोङ्गवः प्राणी स्पृष्टमात्रे सङ्कोचमुपयाति। एकः द्विधाऽभिन्नः शफः येषां तेऽवादयः एकशफाः, द्विशफाः हरिगाइयः, तान् । मार्गशुद्धयर्थमिति प्राणमार्गशुद्धपर्थम् ॥३७॥ • मयूरपादं नालं वा शकलं शल्लकस्य वाा श्वाविजाण्डकचाषाणाम् इति पाठान्तरम् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy