SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तदशोऽध्यायः। अथातो हिकाश्वासचिकित्सितं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥ १॥ वेदलोकार्थतत्वज्ञमात्रेयमृषिमुत्तमम् । अपृच्छत् संशयं धीमानग्निवेशः कृताञ्जलिः॥ य इमे द्विविधाः प्रोक्तास्त्रिदोषास्त्रिप्रकोपणाः। रोगाणां विविधास्तेषां कस्को भवति दुर्जयः॥२॥ इत्यग्निवेशस्य वचः श्रुत्वा मतिमतां वरः। उवाच परमप्रीतः परमार्थविनिश्चयम् ॥ गङ्गाधरः-उद्दिष्टानुक्रमात् पाण्डुरोगचिकित्सितानन्तरं हिकाश्वास. चिकित्सितमाह-अथात इत्यादि। पूर्ववद्याख्येयम् ॥१॥ गङ्गाधरः-वेदलोकेत्यादि। वेदार्थतत्त्वशो लोकार्थतत्त्वशश्चेति यस्तमात्रेयं पुनर्वसु संशयमपृच्छत्। संशयमाह-य इत्यादि । ये खल्विमे विविधाः त्रिपकोपणा असात्म्येन्द्रियसंयोगप्रज्ञापराधपरिणामास्त्रयः प्रकोपणा येषां ते, त्रिदोषा वातपित्तकफास्त्रयो दोषा येषां ते, द्विविधाः सौम्याग्नेयभेदानिजागन्तुभेदाच्छारीरमानसभेदाद्रोगाः प्रोक्तास्तेषां रोगाणां मध्ये कस्को रोगो दुज्जयो भवति ? ॥२॥ गङ्गाधर-इत्यग्निवेशस्य संशयवचः श्रुखा मतिमतां वरो भगवानात्रेयः चक्रपाणिः-पाण्डरोगकारणत्वात् हिकाश्वासयोः पाण्डुरोगानन्टरम् अभिधानम् । वक्ष्यसि हि "पाण्डुरोगाद् विषाच्च व प्रवत्तसे गदाविमौ।" इति। हिकावासौ च समानकारणचिकित्सितस्वात् एकाध्यायेनैवोक्तौ ॥१॥ चक्रपाणिः-वैदिकं लौकिकञ्च अर्थतत्त्वं जानातीति वेदलोकार्थतस्वज्ञः। द्विविधा इति सामान्यासामान्यभेदेन किंवा मृदुदारुणभेदेन निजानिजभेदेन। त्रिदोषा इति वातादिभिः पृथामिलितः । विप्रकोपणा इति असात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणामकारणकाः ॥२॥ . For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy