SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६श अध्यायः २६६६ चिकित्सितस्थानम्। गुडूचीखरसक्षीर-साधितं माहिषं घृतम् । स पिबेत् त्रिवृतां स्निग्धो रसेनामलकस्य तु॥ विरिक्तो मधुरनायं भजेत् पित्तानिलापहम् । द्राक्षालेहश्च पूर्वोक्तं सीषि मधुराणि च ॥ यापनान् क्षीरवस्तींश्च शीलयेत् सानुवासनान् । मार्दोकारिष्टयोगांश्च पिबेद युक्त्याग्निवृद्धये ॥ कासिकञ्चाभयालेहं पिप्पली मधुकं बलाम् । पयसा च प्रयुञ्जीत यथादोषं यथावलम् ॥ ४७॥ तत्र श्लोको। पाण्डोः पञ्चविधस्योक्तं हेतुलक्षणभेषजम् । कामला द्विविधा तेषां साध्यासाध्यत्वमेव च ॥ गङ्गाधरः-हलीमकचिकित्सामाह-गुडूचीत्यादि। गुडूचीस्वरसस्त्रिगुणः, क्षीरं घृतसमम्। एवंसाधितं माहिषं घृतं हलीमकी पिबेत्। तेन स्निग्धः स हलीमकी आमलकस्य रसेन त्रिवृतां विरेकार्थ मात्रया पिबेत्। विरिक्तस्तु मधुरमायं पित्तानिलापहं भेषजाहारं भजेत् । पूर्वमुक्तं द्राक्षालेहश्च भजेत् । मधुराणि च सीषि, यापनान् वस्तीन् सिद्धिस्थाने वक्ष्यमाणान् क्षीरवस्तींश्च सानुवासनान् शीलयेदभ्यस्येत्। मार्दीकेत्यादि। मार्कीकारिष्टं द्राक्षारिष्टं तथान्याननिविद्धये योगान् युक्त्या पिबेत् । कासिकं कासे वक्ष्यमाणमभयालेहं पिप्पल्यादित्रयं चीकृत्य पयसा प्रयुञ्जीत यथादोषं यथाबलमिति ॥४॥ चक्रपाणिः-गुडूचीत्यादिना हलीमकचिकित्सामाह । द्राक्षालेहब्ब पूर्वोक्तमिति द्विपलांशां तुगाक्षौरीम् इत्यादिग्रन्थोक्तम् । इहैव यापनावस्तयः । कासिकञ्चाभयालेहमित्यगस्त्यहरीतकी ॥४७॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy