SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६४५ १५श अध्यायः] चिकित्सितस्थानम् । चव्यत्वपिप्पलीमूल-धातकीव्योषचित्रकान् । कपित्थाम्बष्ठकोहस्ति-पिप्पलीविल्वशाल्मलम् ॥ शिलोद्भदं तथाजाजी पिष्टा बदरसम्मिताम् । घृतेन भर्जितां दध्ना यवागू साधयेद भिषक् ॥ रसैः कपित्थचुक्रोका-वृक्षाम्लेर्दाडिमस्य च । सर्वातिसारग्रहणी-रोगार्शनीहनाशिनीम् ॥ ४१ ॥ पञ्चकोलकयूषश्च मूलकानाञ्च सोषणः।। स्निग्धो दाडिमतकाम्लो जाङ्गलः संस्कृतो रसः॥ क्रव्यादस्य रसः शस्तो भोजनार्थे सदीपनः । तक्रारनालं पानाथं मयं वारिष्टमेव वा ॥४२॥ - गङ्गाधरः-चव्येत्यादि। अम्बष्ठकी पाठा। विल्वशलादः। शाल्मलं शाल्मलीवेष्टम्। शिलोदभेदं शालिञ्चः। सामोषधि बदरसम्मिता कोलपरिमाणां पिष्ट्वा कल्कं दत्त्वा क्षुद्रतण्डलान् यवागूममिबलापेक्षया मण्डपेयाविलप्यन्यतमां चतुदशगुणपड़ गुणचतुगु णदधना पक्त्वा घृते भर्जितां साधयेत् । एवं कपित्थरसेन चुक्रीकारसेन च वृक्षाम्लरसेन च दाडिमाम्लरसेन च तथैव यवागू साधयेदिति पञ्चयवागृविधानम् । यवागूः ॥४१॥ - गङ्गाधरः-पञ्चकोलकेत्यादि। पञ्चकोलस्य कल्कसाध्यो वा काथसाध्यो वा मुगादियषः सोषणः समरिचः। मूलकानां शुष्काणां काथकल्कान्यतरेण साधितः सोषणश्च मुद्गादीनां यूषः। जाङ्गलो रसः हरिणादिमांसरसः दाडिमरसतक्राभ्यां कृताम्लो घृतेन स्निग्धो मरिचलवणादिना संस्कृतः। एवं क्रव्यादमांसस्य रसः मरिचादिवह्निदीपनद्रव्यसाधितो ग्रहणीदोषवतां भोजनार्थे उक्तयवागूभोजनार्थे शस्तो भवति। पानार्थे तक्रमारनालं मधमरिष्टं वा शस्तमिति ॥४२॥ ... चक्रपाणिः-चव्येत्यादौ शाल्मलं शाल्मलीवेष्टकम् । शिलोभवं शैलजम्। चुक्रिका चाङ्गेरी ॥४॥ चक्रपाणिः-सोपण इति समरिचः ॥४२॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy