SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ग्रहणीदोषचिकित्सितम २६४४ चरक-संहिता। सौवर्चलं विड़ पाक्यं यवक्षारं ससन्धवम् । शटीपुष्करमूलानि हिङ्ग हिड्नुशिराटिका ॥ तत्सर्वमेकतः सूक्ष्मं चूर्णं कृत्वा प्रयोजयेत् । हितं वाताभिभूतायां ग्रहण्यामरुचौ तथा ॥ ३९ ॥ मरिचाय चूर्णम्। चतुर्णा प्रस्थमम्लानां त्र्यूषणस्य पलत्रयम् । लवणानाञ्च चत्वारि शर्करायाः पलाष्टकम् ॥ तच्चूर्ण शाकसूपान्न-रागादिष्ववचारयेत् । कासाजीर्णारूचिश्वास-हृत्पाण्डामयशूलनुत् ॥ १०॥ कुड़वमम्लवेतसपलानि दश। इमान् वक्ष्यमाणान् सौवर्चलादीन अपि पलांशिकान् नीखा तत्सर्वमेकतः सूक्ष्मचूर्ण कृषा प्रयोजयेत् दध्यादिभिः। वाताभिभूतायां ग्रहण्यां हितं तथाऽरुचौ च। अत्र पाक्यं पांशुजलवणम् । हिडशिराटिका हिडपत्री । हिङ्गपत्री वेणपत्री नाड़ी हिङ्गुशिराटिकेति पय्योयाः। लोके वेणुपातनामवनजविशेषः । मरिचाद्य चूर्णम् ॥३९॥ गङ्गाधरः-चतुर्णामित्यादि। चतुर्णामम्लानामम्लवेतसवृक्षाम्लकोलदाड़िमानां प्रस्थं प्रत्येकन्तु कुड़वमानं स्वरसम् अषणस्य । प्रत्येकं पलं मिलितस्य पलत्रयम् । लवणानाञ्च चतुर्णा सैन्धवसौवर्चलविड़ोभिदानां प्रत्येकमेकपलं मिलिला चखारि पलानि । शर्करायाः पलाष्टकमिति । तत्सर्वमेकीकृत्य संशोष्य चर्ण कला शाकादिष्ववचारयेत् । इत्यवचारणचूर्णम् ॥ ४०॥ चक्रपाणि:-चतुर्णा प्रस्थमम्लानामित्यत चतुरम्लं वृक्षाम्लाम्लवेतसदाडिमबदररूपमाहुः। अन्ये तु चव्यत्वगित्यादिप्रयोगवक्ष्यमाणकपित्थचुक्रिकावृक्षाम्लदाडिमानां गणमाहुः। सन्तान्तरे तु "वृक्षाम्लं मातुलुङ्गाम्लं बदरश्चाम्लवेतसम्। चतुरम्लमिदं प्रोक्तं पञ्चाम्लन्तु सदाडिमम्" इत्युक्तम्। खूपपणाच पलतयमिति मिलितात् पललयम्। रागः कपित्यादिद्व्यकृतो ग्यअनविशेषः ॥ ३९॥ ४०॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy