SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२श अध्यायः चिकित्सितस्थानम् । २७८६ अहीनमांसस्य य एकदेशजो नवो बलस्थस्य सुखः स साधने । निदानदोषतविपर्ययक्रमरुपाचरेत् तं बलदोषकालवित् ॥१३॥ अथामजं लड़नपाचनक्रमविशोधनसल्वणदोषमाश्रितम् । शिरोगतं शीर्षविरेचनैरधो-विरेचनैर्द्ध मधस्तथोद्धगम् ॥ उपाचरेत् स्नेहभवं विरुनणैः प्रकल्पयेत् स्नेहविधिञ्च रुक्षजे। विबद्धविट्केऽनिलजे निरूहणं घृतन्तु पित्तानिलजे सतितकम् ॥ गङ्गाधरः-अहीनेत्यादि। अहीनमांसस्याकृशस्य य एकदेशजः शोधः । या नवो नूतनः स्वल्पकालजातः बलस्थस्य जनस्य भवति स शोथः साधने सुखः । तं यथा साधयेत् तदाह-निदानविपर्ययदोषविपर्ययविपर्ययः क्रमैस्तं साधने मुखं शोथं बलदोषकालविद् वद्य उपाचरेत् ॥१३॥ गङ्गाधरः-अथामजमित्यादि। निदानविपर्यक्रम एषः। आमजम् अपाकजातं शोथं लमनपाचनक्रमरुपाचरेत्। उल्वणदोषमाश्रितं शोथं विशोधनैर्वमनविरेचनादिभिरुपाचरेत् । शिरोगतं शोथं शिरोविरेचनैरुपाचरेत् । ऊद्ध गं शोथमधोविरेचनरुपाचरेत्। तथाऽधःशोथमूर्द्ध विरेचनरुपाचरेत् । स्नेहभवं शोथं विरुक्षणरुपाचरेत्। रुक्षजे शोथे स्नेहविधि प्रकल्पयेत्। एवमनिलजे शोथे विबद्धविट्के निरूहणं प्रकल्पयेत् । पित्तानिलजे शोथे चक्रपाणि:--अहीनेत्यादिना सुखसाध्यलक्षणमुच्यते। कृच्छ्रसाध्यलक्षणच सुखसाध्य. लक्षणासम्पूर्ण तायां ज्ञेयम्। श्वयथोश्च हेतुलक्षणानि विशोथीयोक्तान्यपि प्रकरणात् संक्षेपेण इहापि कथितानि। सामान्येन चिकित्सासूत्रमाह-निदानेत्यादि। निदानादिविपरीतक्रमैः लखनादिभिरुपाचरेदित्यर्थः। बलदोषकालविदित्यनेन निदानादेविपरीता क्रिया युक्ता । बलं विरामादिभेदभिन्नं तथा दोपं तथा कालञ्च व्याध्यवस्थारूपं विदित्वा या युज्यते सा कर्तव्येति दर्शयति । निदानेत्यादौ दोषशब्देन वातादयो गृह्यन्ते। ऋतुशब्देन च नित्यगः कालः, तनैव तद्विशिष्टवाचकतया बलदोषकालविदिति वचनं न पुनरुक्तम्। अन्ये तु प्रथमेन दोषशब्देन दूप्यधातुग्रहणम् । कृतेन प्रथमव्याख्यानेन दोषशब्देनैव दूष्यस्यापि दोषाधारस्य ग्रहणं ज्ञेयम् ॥ १३ ॥ चक्रपाणिः-आमजमिति एकदोषजनितम्। अपक्वता च प्रायो दोषाणां प्रथमदृष्टौ भवति । नमैरित्युपक्रमैः । अधोविरेचनरुपाचरेत् उई जमित्युक्तम् । उद्धहरैरिति वमनैः । सतितकं घृतमिति ३५० For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy