SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २७८८ चरक संहिता | गुरुः स्थिरः पाण्डुररोचकान्वितः प्रसेक निद्रावमिव हिमान्यकृत् । सकृच्छ्रजन्मप्रशमो निपीड़ितो न चोन्नमेद रात्रिवली कफात्मकः ॥ ११ ॥ कृशस्य रोगैरबलस्य यो भवे दुपद्रवमपूर्वकर्युतः । सहन्ति मम्र्मानुगतोऽथ राजिमान् परिस्रवेद्धीनवलस्य सर्व्वगः ॥ १२ ॥ गङ्गाधरः-- गुरुरित्यादि । यः शोथो गुरुः स्थिरो न चलति, प्रसेको मुख स्रावः, कृच्छ्रजन्मा चिरेण जायते, यः शोथोऽङ्गल्यादिभिर्निपीड़ितो निम्न एव संचिरकालं वर्त्तते न चोन्नमेत्, रात्रिवली रात्रौ वर्द्धते स शोथः कफात्मकः ॥ ११ ॥ Acharya Shri Kailassagarsuri Gyanmandir [ श्वयथुचिकित्सितम् गङ्गाधरः- कृशेत्यादि । कृशस्य जनस्य रोगरबलस्य च जनस्य यः शोथो वमिपूर्वक म्यादिभिरुपद्रवैयुक्तो मम्मनुगतश्च स हन्ति शोथिनम् । अथ हीनबलस्य राजिमान् यः शोथः सर्व्वाङ्गगः परिस्रवेत् स तं शोथिनं हन्ति ॥ १२ ॥ For Private and Personal Use Only 1 चक्रपाणिः- गुरुरित्यादिना कफशोथमाह । अरोचकान्वित इति अरोचकव्याधिसहचारी | कृच्छ्रजन्मप्रशम इति चिरोत्पत्तिविनाशः । राबिली कफात्मक इति रावौ स्त्रोतोरोधजेन देहक्लेदेनाचेष्टया च कफस्य वृद्धत्वात् तज्जनितशोथो बलवान् भवति । दिवा न भवति, fear तु स्फुटस्रोतसि शरीरे चेष्टायुक्ते न कफो बली भवति । दिवा च कफशोथस्तु हीयते ॥ ११ ॥ चक्रपाणिः - संप्रत्यसाध्यसाध्यभागमाह- कृशस्येत्यादि । पूर्वरिति विशोथीये "छद्दिः श्वासोऽरुचिस्तृष्णा ज्वरातीसार एव च । सुप्तिः शोषः सदौर्बल्यः शोथोपद्रव संग्रहः ॥" इत्यनेनोक्तः । मर्मानुगतो राजिमानिति च पृथक् लक्षणम् । परिस्रवन्नित्यादि च पृथक् पृथगसाध्य लक्षणम् ॥ १२ ॥
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy