________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७७४
चरक संहिता |
एषां कषाये द्विक्षीरे विदार्य्याजर सांशिके । जोवनोयैः पचेत् कल्कैरक्षमात्रैघृतादकम् । सितोपलानि पूते तु शीते द्वात्रिंशदावपेत् ॥ गोधूम पिप्पलीवांशी-चूर्णं शृङ्गाटकस्य च । समाक्षिकं कोड़विक तत् सव्र्व्वं खजमूर्च्छितम् । स्त्यानं सर्पिर्गुड़ान् कृत्वा भूर्जपत्रेण वेष्टयेत् ॥ तान् जग्ध्वा पलिकान् क्षीरं मद्यञ्चानुपिबेत् कफे | शोषे कासे ते क्षीणे श्रमस्त्री भारकर्षितै ॥ रक्तनिष्ठीवने तापे पोनसे चोरसि स्थि | शस्ताः पार्श्वशिरःशूले भेदे च स्वरवर्णयोः ॥ २६ ॥ (२) सर्पिगुडः ।
[क्षतक्षीणचिकित्सितम्
एषां त्रयोदशानां प्रत्येकं मुष्टा शिकाः पलाशिकाः । एषामष्टगुणे त्रयोदशशरावे जले पक्त्वा पादशेषे सपादशरावत्रये कषाये द्विगुणक्षीरे विदारीरसे घृतसमे तथा आजमांसरसे घृतसमांशे अक्षमात्रः प्रत्येक जीवनीयः कल्कघृताढ़कं षोड़शशरावं पचेत् । पक्वे पूते तत्र घृते शीते च सितोपलानि द्वात्रिंशत् पलान्यावपेत् । तथा गोधूमचूर्ण पिप्पलीचूर्ण वंशलोचनाचर्णं शृङ्गाटकस्य चणं प्रत्येकं कौड़विकं मधु च कोड़विक दत्त्वा खजेन ददण्डेन मृच्छयेदालोक्य मिश्रयेत् । ततः स्त्यानं सपिगुंड़कान कृत्वा भूज्जे पत्रेण वेष्टयेत् । तान् गुड़कान् यथाबलं जग्ध्वा क्षीरमनुपिवेत् । कफे मद्यमनुपिवेत् । शोष इत्याद्याशीः ॥ २६ ॥ सर्पिर्गुडः (२)
For Private and Personal Use Only
मुष्ट शिका इति पलमानाः । अव च बलादीनां त्रयोदशपलेषु वाथ इति षड् विंशतिः काथपलानि । एतत्कषायाद द्विगुणं क्षीरम् । विदारीरसछागमांसरसश्च कषायसमः । एवं त्रिंशत्पलाधिकं द्रवपलशतमिह घृतादके पक्तव्ये भवति । अन्ये तु क्वाथ्यात् षोड़शगुणजलदानपरिभाषया साधिते क्वाथे द्विपञ्चाशत् क्वाथपलान्याहुः । एतदनुसारेण क्षीरादिदानमप्यधिकं भवतीत्याहुः । किन्तु काथ्यतयोदशपलेऽल पानीयं तथा पत्तव्यं यथा घृतसमः क्वाथो भवति । काथो ह्यत्र चतुद्र'वसाध्ये घृतसम एव भवति । एतत्क्वाथः द्विगुणं क्षीरं समश्च विदारीरसः छागमांसरसश्च देयः । किंवा विदार्थ्याजमांसयोर्मिलित्वा ह्यादुकांशमयो देयः ।