SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [कुष्ठचिकित्सितम् २६६० .. चरक-संहिता। सर्षपकरञ्जकोषातकीनां तैलान्यथेङ्गदीनाञ्च । कुष्ठेषु हितान्याहुस्तैलं यच्चापि खदिरस्य ॥ ६५ ॥ जीवन्ती मञ्जिष्ठा दार्वी कम्पिल्लकं पयस्तुल्यम् । एष घृततैलपाकः सिद्धः सिद्धे च सर्जरसो देयः॥ समधूच्छिष्टो विपादिका तेन च शाम्यतीत्युक्तम् । चम्मैककुष्ठकिटिमं कुष्ठं शाम्यत्यलसकञ्च ॥ ६६ ॥ विपादिकाहरघृततैले। क्लिन्नं वराहरुधिरं पृथ्वीका सैन्धवञ्च लेपः स्यात् । लेपो योज्यः कुस्तुम्बुरूणि कुष्ठञ्च मण्डलनुत् ॥ ६७॥ __मण्डलकुष्ठ लेपौ। गङ्गाधरः-सर्षपेत्यादि। केवलमपक्वं सार्षपं तैलं तथा गोकरञ्जवीजभवं तैलं तथा कोषातकीफलभवं तैलं तथेगुदीनां जीवपुत्रिकाणां वीजभव तैलं तथा खदिरवीजभवञ्च तैलम्। इति पञ्च तैलानि प्रत्येकं सर्वेषु कुष्ठेषु हितान्याहुमहर्षयः ॥६५॥ इति तैलानि पञ्च । - गङ्गाधरः-जीवन्तीत्यादि। जीवन्त्यादीनि चवारि द्रव्याणि पादिकानि कल्कीकृत्य तुल्यं पयो दत्त्वा पचेत् । सार्षपतैलमथवा गव्यं घृत घृततैलोभयं वा मिलितं पचेत्। पाकः सिद्धो यथाविधि। पाके सिद्धे सति वस्त्रपूतं कृत्वोष्णे सति तत्र घृते तैले च मधूच्छिष्टसज्जेरसौ मिलिखा पादांशी दत्त्वा स्थापयेत् । तेनाभ्यङ्गाद् विपादिकादि कुष्ठं शाम्यतीत्युक्तम्। विपादिकादिषु तैलघृते॥६६॥ - गङ्गाधरः-क्लिन्नमित्यादि। पृथ्वीको सैन्धवञ्च वराहरुधिरे क्षिप्त्वा स्थापयेत् आ क्लेदीभावात् । क्लिन्ने सति तेन लेपः स्यान्मण्डलनुत् । अपरो लेपः कुस्तुम्बुरुकुष्ठाभ्यां योज्यः मण्डलनुत् ॥ ६७ ॥ मण्डलकुष्ठे लेपो। ..चक्रपाणिः-सर्षपकरजेत्यादिना कुष्ठेष्वनुपानसाधने सार्षपतैलादीनि देयानि इति दर्शयति । अन्ये तु कुष्ठेषु सामान्येन तैलायुक्तौ सार्पपादीन्येव देयानि न तिलतैलमित्यनेन दर्शितम् इति वर्णयन्ति ॥ ६५॥ चक्रपाणिः-घृततैलपाक इति यमकपाकः । अत्र च सिद्धे स्नेहे क्षेप्ययोः सर्जरसमधूच्छिष्टयोरपि कल्कार्थ दत्तजीवन्तीमञ्जिष्ठादिद्रव्याणां समानमानत्वं साहचर्याजज्ञेयम् । किंवा स्नेहादष्टमो भागः सर्जरसमधूच्छिष्टयोरन्यत्र दृष्टत्वात्। तथाहि समूलाग्रेरण्डेत्यादौ द्विपस्थस्नेहपरिमाणे मधूच्छिष्टपलान्यष्टावुक्तानि ॥६६।६७ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy