SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७म अध्यायः] चिकित्सितस्थानम्। २६५६ कल्कैरेतैस्तैलं करवीरकमूलपल्लवकषाये। सार्षपमथवा तैलं गोमूत्रचतुर्गणं साध्यम् ॥ कटुकालाब्वां स्थाप्यं तत् सिद्धं तेन मण्डलान्याशु । भिन्याद् भिषगभ्यगात् क्रिमीश्च कण्डूश्च विनिहन्यात् ॥६३ कनकक्षीरीतेलम्। कुष्ठं तमालपत्रं मरिचं समनःशिलं सकाशीसम् । तैलेन युक्तमुषितं सप्ताहं भाजने ताम्र ॥ तेनालिप्तं सिध्म सप्ताहाद घर्मसविनो व्येति । मासान्नवं किलासं स्नानं मुक्त्वा विशुद्धतनोः॥ ६४॥ सिध्मलेपः। चलारिंशता द्रव्यैरेतः कल्कैः सार्षपतैलस्य पादिकैः करवीरस्य मूलं पल्लवश्च समभागेन गृहीलाष्टगुण जले कायिला चतुर्थभागशिष्टे कषाये तेलाचतुगुणे सापपतलं साध्यम् । इत्येकं तेलम्। अथवा तैः षट्चवारिंशता द्रव्यैः कल्कः पादिकैः गोमूत्रचतुगुणं साषेपतैलं साध्यमित्यपरं तैलम्। एवं तैलद्वयं साधयिखा कटुकालाबां तिक्तालाबूपात्रे स्थापयेत्। तेन तैलेनाभ्यङ्गादाशु मण्डलानि कुष्ठानि भिषा भिन्द्यात्। इति कल्कतैलं द्विविधम् ॥ ६३॥ कनकक्षीरीतैलम् । - गङ्गाधरः-कुष्ठमित्यादि। कुष्ठादि पञ्चद्रव्यं पेषयिता सार्षपेण तैलेन युक्तं ताम्रपात्रे सप्ताह स्थापयेत्। सप्ताहानन्तरं तेन तैलेन लिप्तं सिध्मस्थानं रोद्रे समासीत। एवं सप्ताहात् सिध्मं व्येति। मासान्नवं किलासं व्येति । तावत्कालं स्नानं त्यजेत् । पूर्वश्च वमनादिना शरीरं संशोधयेत् । तत्र तल्लेपः सिध्यति ॥६४॥ सिध्मलेपः। चक्रपाणिः-कनकभीरी स्वर्णक्षीरी । अवाकषुष्यपामार्गः ॥ ६३ ॥ चक्रपाणिः-व्येति ब्यपयाति । धर्मे इत्यातपे, स्नानं मुक्तवेति स्नानं वर्जयित्वा अर्थ प्रयोगः॥३॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy