SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ष्ठ भन्याया] चिकित्सितस्थानम्। २६६१ सषष्टिकं स्यात् तृणधान्यमन्न यवप्रधानन्तु भजेत् प्रमेही। यवस्य भक्ष्यान् विविधांस्तथाद्यात् कफप्रमेही मधुसंप्रयुक्तान् ॥१४ निशि स्थितानां त्रिफलाकषाये स्युस्तपणाः क्षौद्रयुता यवानाम् । तान् सीधयुक्तान् प्रपिबेत् प्रमेहो प्रायोगिकान् मेहवधार्थमेव ॥१५ ये श्लेष्ममेहे विहिताः कषायास्तै वितानाञ्च पृथग यवानाम् । शक्तूनपूपान् सगुड़ान् सधानान् भक्ष्यांस्तथान्यान् विविधांश्च खादेत॥ खराश्वगोहंसकसंभृतानां * तथा यवानां विविधाश्च भक्ष्याः। देयास्तथा वेणुयवा यवानां कल्पेन गोधूममयाश्च भक्ष्याः ॥१६॥ युतं पुराणशाल्योदनमाददीत। तथा अतसी मसिना इति लोके, सर्षपश्च तयोस्तैलयुतं सपष्टिकं पष्टिकधान्ययुक्तं तृणधान्यं कङ्गु कोद्रवादिकमन्नं भजेत् । किन्तु प्रमेही भक्षणविधौ यवप्रधानं भजेत् यवविकारबहुलाहारी स्यात् । इति सामान्यतः प्रमेहिणां संशमनायाहारार्थद्रव्याणुक्त्वा कफप्रमेहादिभेदैनाहयवस्येत्यादि। यवस्य भक्ष्यान् घृतपूरादीन् मधुसंमिश्रान् कफप्रमेही अयात् ॥१४॥ ___ गङ्गाधरः-निशीत्यादि। त्रिफलाकवाये त्रिफलाकाथे निशि स्थितानां यवानां सक्तरूपाणां परदिने तेन त्रिफलाकषायेणालोडितानां क्षौद्रयुताः तपगाः स्युः। तान् तर्पणान् सीधुयुतान् पायौगिकान् सतताभ्यस्तान् प्रपिबेत् मेहवधार्थ प्रकरणात् कफमेहनाशार्थम् ॥१५॥ · गङ्गाधरः-ये श्लेष्ममेहे इत्यादि। ये श्लेष्ममेहेऽत्रैव विहिता अर्थात् वक्ष्यमाणाः श्लेष्ममेहकाथा वा ये तैः काथै वितानां यवानां सक्तूनपूपान् सगुडान गुड़ेन मिश्रान् सधानान् धानानामकान् तथान्यांश्च भक्ष्यांस्तयवकृतान् विविधान् खादेत्। खराश्वेत्यादि। खराश्वादीनां मांसस्य तथा यवानां पूपादयो भक्ष्या विविधा देयास्तथा यवानां कल्पेन त्रिफलाकषाये निशि स्थितानां श्लेष्मप्रेहकषायभावितानां वेणुयवानां विविधा भक्ष्यास्तथा यवानां कल्पेन गोधूमानां विविधा भक्ष्या देया इत्यर्थः ॥१६॥ फलरूपातसी विवक्षिता। तृणधान्यादीनि श्यामाकादीनि। अपूपान यवपिष्टकृतान् । धानान् भृष्टयवान् । किंवा शक्रहुतानां यवानां, वेणुयवा यवानां वंशफलानामित्यर्थः ॥११-१६॥ * हंसपृषभृतानां तथा धेनुकसंभृतानामिति पाठद्वयं दृश्यते । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy