SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६१० चरक-संहिता। [प्रमेहचिकित्सितम् गुल्मः क्षयो मेहनवस्तिशूलं मूत्रग्रहश्चाप्यपतर्पणेन। प्रमेहिणः स्युः परिवृहणानि कार्याणि तस्य प्रसमीक्ष्य वह्रिम् ॥१२ संशोधनं नाहति यः प्रमेही तस्य क्रिया संशमनी प्रयोज्या। मन्थाः कषाया यवचूर्णलेहाः प्रमेहशान्त्यै लघवश्च भक्ष्याः ॥१३॥ ये विष्किरा ये प्रतुदा विहङ्गास्तेषां रसैर्जाङ्गलजैमनोज्ञः। यवौदनं रुक्षमथापि वाट्य मद्यान् सशक्तूनपि वाप्यपूपान् ॥ मुद्दादियूषैरपि तिक्तशाकैः पुराणशाल्योदनमाददीत। दन्तोगन्दोतैलयुतं प्रमेही तथातसीसर्षपतैलयुक्तम् ॥ चनयोर्ये योगास्ते मलशोधनाय उद्धृतोऽधस्ताच्च कफपित्तपुरीषशोधनाय प्रयोज्याः। तैयोगैः ऊर्द्ध वमनेन कफादौ मलेऽपनीते तथाधश्च विरेचनेन पित्तादावपनीतें निर्ह ते सति सन्तर्पणं सन्तर्पणीयोक्तं तृप्तिकरं कर्म कार्यम् ॥११॥ गङ्गाधरः-कस्मात् संशुद्धमलस्य प्रमेहिणः सन्तर्पणं कार्य न खपतर्पण मित्यत आह-गुल्म इत्यादि। प्रमेहिणः वान्तस्य विरिक्तस्य खल्वपतपणेन गुल्मादय एते स्युस्तस्माचापहृतमलस्य प्रमेहिणो वह्नि असमीक्ष्य परिहणानि च कार्याणि ॥१२॥ गङ्गाधरः-संशोधनमित्यादि। यस्तु खलु प्रमेही कृशदुबलादिः संशोधनं नाईति तस्य संशमनी क्रिया प्रयोज्या। अथ संशमनानि प्रमेहिणामाह-मन्था इत्यादि। मन्था द्रवेणालोड़िताः सक्तवः। कपायाः पञ्च कषायरूपाः । यवश्व चूर्णश्च लेहश्च लघवश्व पुराणपष्टिकादिकृता विकारा भक्ष्याः प्रमेहशान्त्यै प्रयोज्याः ॥१३॥ गङ्गाधरः-तत्रादौ मांसाथमाह-ये विष्किरा इत्यादि। अन्नपानादिके. ऽध्याये ये विष्किरसंशाः पक्षिणः प्रतुदसंज्ञाः पक्षिणश्चोक्तारतेषां मांसरसः मनोज्ञ र्जाङ्गलमांसजैश्च रसैः रुक्षं यवौदनं यवतण्डुलौदनमथवा वाट्य यवमण्डमू आददीत। सशक्तन् यवशक्तनप्यपूपानपि आददीत। मुद्दादिलघुविदलयः तिक्तशाकैः पटोलपत्रादिभिः पत्रपुष्पफलकाण्डशाकः पुराणशाल्योदनं वा आददीत। दन्तीत्यादि। दन्तीफलस्नेहेन इङ्दी पुत्रञ्जीवफलं तस्य स्नेहेन चक्रपाणिः-अयो धातुक्षयः। क्षुषणशुष्कयवाणां मण्डरहितो यवौदनः, स एव मण्डो वास्यः निस्तुषोष्णदलितानां यवानां भवति । अतसी ख्याता। ये तिलातसीति पठन्ति तेषां मनसि For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy