SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पम अध्यायः चिकित्सितस्थानम्। २५६१ रोहिणीकटुका मुस्ता त्रायमाणा दुरालभा। कल्कैस्तामलकीवीरा-जीवन्तीचन्दनोत्पलैः॥ रसस्यामलकानाञ्च क्षीरस्य च घृतस्य च। पलानि पृथगष्टाष्टौ दत्त्वा सम्यग् विपाचयेत् ॥ पित्तरक्तभवं गुल्म वीसपं पैत्तिकं ज्वरम् । हृद्रोगं कामलां कुष्ठं हन्यादेतद् घृतोत्तमम् ॥७८ ॥ इति त्रायमाणाद्य घृतम्। रसेनामलकेनूणां घृतप्रस्थं छ विपाचयेत् । पथ्यापादं पिबेत् सर्पिस्तत् सिद्धं पित्तगुल्मनुत् ॥ ७९ ॥ इति आमलकाद्य घृतम् । द्राक्षां मधूकं खजरी विदारी सशतावरीम् । परूषकाणि त्रिफलां साधयेत् पलसम्मिताम् ॥ जलाढके पादशेष रसमामलकस्य च। घृतमिथुरसं क्षीरमभयाकल्कपादिकम् ॥ रोहिण्यादिकल्कैः प्रत्येकं कार्षिकैः सह संयोज्य आमलकरसं गव्यक्षीरं प्रत्येक मष्टपलं दत्त्वाष्टपलं घृतं सम्यग् विषाचयेत् । अत्र रोहिणीकटुका कटुरोहिणी। तामलकी भूम्यामलकी। वीरा शालपर्णी ॥ ७८॥ त्रायमाणाद्य घृतम् । गङ्गाधरः-रसेनेत्यादि। घृतप्रस्थमामलकस्य द्विपस्थरसेन इक्षोश्च द्विपस्थरसेन पथ्याया हरीतक्याः कल्कं शरावमितं दत्त्वा विपाचयेत् ॥७९॥ आमलकाद्य घृतम्। गङ्गाधरः-द्राक्षामित्यादि । द्राक्षा, मधूकं मधूकपुष्पम् । द्राक्षादीनां नवानां प्रत्येकं पलं मिलिखा नव पलानि जलाढके पोडशशरावजले साधयेत् । पादशेष चतुःशरावावशेष रसं काथम् आमलकस्य च रसं चतुःशरावम्, इक्षुरसञ्च चक्रपाणिः-चतुःपलायां वायमाणायां दशगुणं जलं चत्वारिंशत्पलानि। कल्कैरिति तामलकादिभिः। कटरोहिण्यादयश्व कल्का इति योजनीयम् ॥ ७८ ॥ चक्रपाणिः-घृतपादमिति समुदितामलकेक्षुरसापेक्षया घृतस्य पादिकत्वम्। पथ्यापादम् इत्यत्र हरीतक्या गुरुत्वेन घृतापेक्षया पादत्वेनाष्टमो भागो भवतीति। एके तु “यस्माच पाद * घृतपादमिति पाठान्तरम् । ३२५ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy