SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः] चिकित्सितस्थानम्। २४८१ मुद्दान् मसूरांश्चणकान् कुलस्थान् समुकुष्टकान् । यूषार्थे यूषसात्म्याय ज्वरिताय प्रदापयेत् ॥ ११४ ॥ पटोलपत्रं सफलं कूलकं ® पापचेलिमम् ।। कर्कोटकं कठिल्लञ्च विद्याच्छाकं ज्वरे हितम् ॥ ११५ ॥ लावान् कपिञ्जलानेणांश्चकोरानुपचक्रकान् । कुरङ्गान् कालपुच्छांश्च हरिणान् पृषतः शशान् ॥ पचेत् । इति कल्कसाध्या यवागूः। काथश्च वारिप्रस्थे तत्तन्मानं कणादिकं कुट्टयिला पत्त्वाद्धशेष परिस्रावित चतुर्दशादिगुणे तत्र काथे क्षुद्रतण्डुलं दत्त्वा मण्डादियवागूः पाक्या इति काथसाध्या यवागूः ॥११३॥ गङ्गाधरः-ननु सूपयूषार्थ किं किं शमीधान्यं ज्वरे हितमित्यत आहमुद्गानित्यादि। मुकुष्टको वनमुद्गः। यषसात्म्याय न खयूषसात्म्याय न वा सूपरूपेण दद्यात् ॥ ११४॥ गङ्गाधरः-ननु शाकसात्म्याय कस्कः शाको ज्वरे हित इत्यत आह–पटोलपत्रमित्यादि। पापचेलिम कारकेन्वकम् ॥११५॥ गङ्गाधरः-ननु जाङ्गलैवा रसरिति यदुक्तं तज्जाङ्गलाः के इत्यत आहलावान् इत्यादि । लाअभेटा इति लोके ख्यातः पक्षिविशेषः । कपिञ्जलान् वाइ इति लोके चटकवत् पीतवर्णमस्तकः पक्षिविशेषः। एणान् कृष्णसारादीन् हरिणान्। चकोरान् प्रसिद्धांश्चकोरपक्षिणः। उपचक्रकान् कयेर इति लोके पक्षिविशेषान् । कुरङ्गान् स्वल्पहरिणान् । कालपुच्छान् कृष्णपुच्छहरिणविशेषान् । हरिणान् प्रसिद्धान्। पृषतो वाताट हरिणान्। शशान् शशक इति लोके । षडङ्गादि प्रयुज्यते। कर्षमानं ततो दत्त्वा साधयेत् प्रास्थिकेऽम्भसि। अर्द्धशृतं प्रयोक्त पाने पेयादिसंविधौ ॥” इति । 'आदि'शब्देनात यूषरसादिग्रहणम् ; "काथ्यद्व्याञ्जलिं क्षुण्णम्" इत्यादिपरिभाषायास्तथानुक्तपरिभाषायाश्च कर्त्तव्यव्यवस्था तथा सकलयवागूसाधनतण्डुलजलादिमानव्यवस्थाव्यभिचारश्चापामार्गतण्डुलीय एव निर्लोचितोऽनुसरणीयः ॥ १०५-११३॥ चक्रपाणिः-मुद्गानित्यादि ज्वरहितयूषद्रव्यसंग्रहः । यूषकरणमिति यवागूसाधनवत् । मुद्रः स्वनामप्रसिद्धः ; कुलकं कारवेल्लकम् ; पापचेलिका पाठाशाकम् ; कठिल्लक रक्तपुनर्नवा। कपिजलो गौरतित्तिरिः, एणः कृष्णसारः, उपचक्रकश्वकोरः ; कालपुच्छो हरिणविशेषः ; हरिणस्ताम्रवर्णः ; * वार्ताकुमिति वा पाठः । + पापचेलिकामिति पाठान्तरम् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy