SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४८० चरक-संहिता। [ ज्वरचिकित्सितम् अस्वेदनिद्रस्तृष्णातः पिबेत् पेयां सशर्कराम् । नागरामलकैः सिद्धां घृतभृष्टां ज्वरापहाम् ॥ ११३ ॥ ज्वरितः पुमान् बला वृक्षाम्लं तिन्तिडीकं कोलं शुष्कटहद्धदरफलं तदेवाम्लं कलशी शालपर्णी धावनी पृश्निपर्णी एताभिः पञ्चभिः कल्ककाथान्यतररूपाभिः भृतां पुराणरक्तशालीनां पेयां सविल्वां विल्वशलादुचर्णयुक्तां वा पिबेत् ॥११२॥ गङ्गाधरः-अस्वेदेत्यादि। यस्तु ज्वरी अस्वेदनिद्रः घम्मनिद्राभ्यां रहितः तृष्णार्तश्च भवति, तदा नागरामलकैः कल्ककाथकतररूपः सिद्धां पका रक्तशालीनां पुराणानां पेयां गव्यघृते भृष्टां सन्तलितां ततः सशर्करामनुरूपेण शर्करां प्रक्षिप्य ज्वरहरां पिबेत्। पेयासाधनार्थ द्रव्यमानमाहु द्धाः। "कर्षाद्धं वा कणाशुण्ठयोः कल्कद्रव्यस्य वा पलम् । विनीय पाचयेद् युक्त्या वारिप्रस्थेन चापराम्॥” इति । अत्र कणाशुण्ठ्योरिति तीक्ष्णद्रव्योपलक्षणं कल्कद्रव्यस्य वा पलमिति मृदुद्रव्यपरम्, तेन मिश्रितमध्यमवीर्ययोरुभयभागिलाद अपलं त्रिकर्ष वा गृहीखा कुट्टयिखा कटे पोट्टले बद्धा, तण्डुलञ्च मण्डादिषु कर्तव्येषु वारिप्रस्थो यथा चतुर्दशषट्चतुगुणो भवति तावन्मानं बद्धा क्षिप्ता इत्यादिना धावनीशृतामित्यन्तेनैका यवागूः। परिकर्णिका परिकर्तिकाकारा वेदना। कलशी सिंहपुच्छम् । धावनी कण्टकारी। अत्र च यवागूनां साधनद्रव्यजलतण्डुलपरिमाणे वृद्धवैद्यव्यवहाराः पूजिताः प्रमाणीकर्तव्याः। अताग्निवेशसंहितायामधीयते "काथ्यद्रव्याञ्जलिं क्षुषणं अपयित्वा जलाढके। पादशेषेण तेनास्य यवागूरुपकल्पयेत्। कर्षा वा कणाशुष्ठ्योः कल्कद्रव्यस्य वा पलम् । विनीय पाचयेद् युक्त्या वारिप्रस्थ न चापराम् ॥” इति। अपरामिति क्वाथसाध्ययवाग्वा उक्तया भिन्नां कल्कसाध्यामित्यर्थः । एवञ्च कल्कपदेन या तत यवागूसाधनपरिभाषा, सा इहापि द्रव्यपलकल्केन यवागूसाधनमुपदिशतानुमतैव, तथापि जीवन्त्यादियवाग्वामष्टाभिद्रं व्यैः पलप्रमाणैः साधनमुक्तम् । यत् तु तत्र वृक्षाम्लयुक्तत्याङ्यक्तम्, तदम्लतामातार्थं वृक्षाम्लदानम्, न सदष्टमाषकप्रम्गणम्, किंवा तदस्याष्टमाषकमानप्रमाणमस्तु, तथाप्यदूरार्थम् इतरार्थतया कल्कपलसाधनोपदेशिका परिभाषानुमतैव भवत्यष्टमाषकाधिकपलफल्कसाधनोपदेशेन, उक्तं हि-"जीवन्त्यजाजीपुष्कराह्नः सकारवीदीप्यकविल्वमध्यैः। सयावशूकैर्बदरप्रमाणैर्वृक्षाम्लयुक्ता घृततैलभृष्टा। अर्शोऽतिसारानिलगुल्मशोफ-हृद्रोगमन्दाग्निहिता यवागूः। या कल्कसाध्या विधिनैव तेन सिद्धा भवेत् सापि हितार्थिना च" इति ; तस्मादेतयवागूमानलिङ्गदर्शनात् कल्कपलसाध्ययवाग्वभिधायिका परिभाषाऽनुमतैव, तदन्या अतत्सहचरिता कषाकणाशुष्ठीमानदर्शिकाऽनुमतैव । काथसाध्ययवाग्वादिद्रव्यमाने तु वृद्धव्यवहारपूजितेयं परिभाषा-"यदप्सु शृतशीतासु For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy