SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४३१ ३य अध्यायः चिकित्सितस्थानम् । विपर्ययज्वरं करोति सोऽपि दोषो निदानविशेषप्रभावात् त्रिधाभूतखकफत्रिस्थान-स्थायित्वैक-दिनोत्तरैकदिन-दीर्घकाल-व्यापि-ज्वरकरखादिखभावानामोति। तेन ह्य के दिनं विहायैकस्मिन् परदिने दीर्घकालं व्याप्य ज्वरयति। आमाशयहृदयकण्ठेषु त्रिषु स्थानेषु विधाभूय तिष्ठंस्तृतीयकविपरपयकरो दोषस्ततीयकविपय्येयं करोति। आमाशयस्थदोषभागः खबलात्यनुत्कर्षात् ज्वरयितुमशक्तो वर्त्तते, यदा हृदयस्थदोषभागो हृदयात् आमाशयमेति तद्दिने किश्चिदलमादत्ते न च ज्वरयितुं प्रभवति, तदिने तृतीयो हि कण्ठस्थदोषभागः कण्ठादागत्य हृदये तिष्ठति। ततः परदिने स तुतीयदोषभागो हृदयादामाशयमेत्यापरभागद्वयेन मिश्रीभूय पूर्णबलो ज्वरयतीत्येवं सबैमहोरात्रं दीर्घकालं व्याप्य वत्तेते, तृतीयकस्तु अल्पकालं व्याप्येति परस्परं भेदस्तृतीयकतद्विपर्यययोः। तदिने एव कृतवेगवात् स्वस्वस्थानं गवा निवृत्तवेगो वत्तेते, वत्तते चामाशयस्थो दोषभागोऽपि निवृत्तवेग एव। परदिनन्तु तथैव हृदयस्थदोपभागो हृदयादामाशयमेति, कण्ठस्थश्च कण्ठाच हृदयमेति, न च तदिने ज्वरयितु प्रभवतीति । पुनः परदिनं तृतीयभामः आमाशयमेत्य भागद्वयेन मिश्रीभूय पूर्णबलो ज्वरयतीत्येकदिनं न भूखा परदिनं दीर्घकालव्यापी ज्वरो भवतीति भावः। एवं यश्च दोषश्चातुथकं कुरुते सोऽपि निदानविशेषप्रभावात् कुपितश्चतुर्दा भूखामाशयहृदयकष्ठशिरःसु चतुर्ष कफस्थानेषु तिष्ठन् आमाशयस्थदोपभागोऽत्यनुत्कर्षात् स्वबलस्य ज्वरयितुमशक्तो वत्तते। हृदयस्थो दोषभागस्त्वपरदिन हृदयादामाशयमेति, तदिने किञ्चिद्धलमादत्ते न च ज्वरयितु प्रभवति, तद्दिने च कण्ठस्थो दोपभागः कण्ठाच्च हृदयमेति शिरःस्थश्च काठमेति, ततः परदिने कण्ठस्थो हृदयं हृदयस्थो दोषभाग आमाशयं गवा त्रिपादबलमाददानो न ज्वरयति । ततः परदिने तच्चतुर्थदोषभागो हृदयादामाशयमेत्य पूर्णबलः सन् ज्वरयति, तदिन एव कृतवेगखात् स्वस्वस्थानं गवा निवृत्तवेगो वर्तते। वर्तते चामाशयस्थोऽपि निवृत्तवेग एव। इति दिनद्वयं न भूखा परदिने भवति । तद्विपर्ययस्तु दिनद्वयं निरन्तरं भूला परदिनं न भवतीति चतुर्थकतद्विपर्याययोरस्ति भेद इति व्याचक्ष्महे। नितरां चरकाचाय्यश्चातुर्थकविपर्ययमेवोक्तवान् जतूकर्णेऽपि तृतीयकचातुर्थकविपर्ययावुत्त्वाभिहितम्–“विषमज्वरास्त्रिदोषजत्वेऽप्यधिकदोषलब्धाख्याः" इति ॥३६॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy