________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। (ज्वरचिकित्सितम् प्रायशः सन्निपातेन एकैकरसादिधातुस्थेन त्रिदोषेण दृष्टः । चातुर्थकविपर्ययस्तु अस्थिमज्जोभयस्थेन एकैकवातादिदोषेण दृष्ट इति पञ्चभ्योऽन्यः, परन्तु विषम एव वैषम्यसामान्यादिति भावः। ननु कफपित्तात् त्रिकग्राहीत्यादिद्विदोषादिना खयोक्तः कथं सन्निपातन दृष्ट इत्यत आह–सनिपाते वित्यादि। सन्निपाते रोगे यो दोषो भूयान् उल्वणः स एव दोपः कीर्तितः । तेन कफपित्तात् इत्यादौ कफपित्तोल्वणादित्येवमादिकाभिप्रायेण दोषः प्रकीर्तित इति बोध्यम् । यदि कदाचिदेकादिदोषाज्जायन्ते सन्ततादयस्तेन न हानिः। प्रायशः सन्निपाते दृष्टः पञ्चविधो ज्वर इति वचनात् न त्वेकान्ततः सानिपातिकत्वेन । चातुर्थकविपय्ययस्तु एकान्तत एवास्थिमज्जोभयधातुस्थैकैकदोषेण जन्यते इति तेभ्योऽन्य एव। एतेन सन्ततादिपञ्चविधखोपदेशेन प्रलेपकवात बलासकशीतादिदाहादिरात्रिज्वरादयो ज्वरान प्रतिषिध्यन्ते न चोपदिश्यन्ते तन्त्रबाहुल्यभयात् । परन्तु अनयैव दिशा महाबुद्धिभिः अनुसत्तेच्या अल्पबुद्धिभिस्तु प्रायेणानन व्यवसेया इति।
सुश्रुते तु अन्येदुरष्कतृतीयकचातुर्थकानां विपर्ययाख्याश्च त्रयो विषमज्वरा उक्ताः। तद यथा “कफस्थानेषु वा तिष्ठन् दोषो द्वित्रिचतुषु वा। विपय्य याख्यान् कुरुते विपमान कृच्छसाधनान् ॥” इति । व्याख्यायते चैतद्वचनम्। आमाशयहृदयकण्ठशिरांसीति चखारि स्थानानि कफस्य । तथा हि यो दोषो निदानविशेषप्रभावात् कुपितोऽन्यदुष्कविषय्येयं कुरुते स तत्तन्निदानविशेषप्रभावनितद्विधाभूतखकफद्विस्थानस्थितखस्वभावः दिने चैकस्मिन् विपरित्यागिसाहोरात्रव्यापित्वस्वभावश्चानोति। तेन च कफस्थानानां तेषा चतुणां मध्ये द्वयोरामाशयहदययोस्तिष्ठन् दोप एकस्मिन्नेव दिने पूर्व यो दोषभागः स ज्वरयितुं खवलानुत्कदिशक्तः कमपि कालमेकं ज्वरयन् निवृत्तवेगो वर्तते, ततश्च यदा हृदयस्थो दोपभागः आमाशयमागच्छति तदा लब्धबलो ज्वरयति। स्वबलानुरूपं दीर्घ कालं व्याप्येति द्विकालं दैर्येण व्यापीत्यल्पकालत्यागी ज्वरः स्यात् । अन्येदुरष्कस्तु अहोरात्रमेकवारं कालमल्पं व्याप्य ज्वरयति सवाहोरात्रपरित्यागीति विपर्ययः परस्परमनयोः। अल्पकालं ज्वरयन् दीर्घ कालमेकवारं परित्यागीत्यन्येदुरष्कविपर्ययाद्भिन्न एव। एवं यश्च तृतीयकप्रायशोग्रहणात् सततकादीनां द्वन्द्वादिजन्मत्वमपि सूचयति । ननु यदि सन्निपातारब्धत्वमेषां तर्हि यदृच्यते चातुर्थके इलैष्मिकत्वादि, तत् कथमिवेत्याह- सन्निपाते तु यो भूयानित्यादि।
For Private and Personal Use Only