SearchBrowseAboutContactDonate
Page Preview
Page 1509
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७३८ चरक-संहिता। (प्रसृतयोगीया सिद्रिः मृदुवस्तिजड़ीभूते तीक्ष्णोऽन्यो वस्तिरिष्यते। तीक्ष्णविकर्षिते स्वादु प्रत्यास्थापनमिष्यते ॥१२॥ वातोपस्सृष्टस्यौष्णैः स्युर्गदा दाहादयो यदि। द्राक्षादिना छ त्रिवृत्कल्कं संपिबद्ध दोषशोधनम् ॥ तच्च पित्तशकुदवातान् हत्वा दोषादिकान् जयेत् । शुद्धश्चापि पिबेच्छीतां यवागू शर्करायुताम् ॥ १३ ॥ अथवातिविरिक्तस्य क्षीणविटकस्य दापयेत् ।। माषयूषेण कुल्माषात पानं दध्यथवा सुराम् ॥ १४ ॥ सामञ्चेदाशयं शूलैरुपवेशैररोचकैः। सघनातिविषाः कुष्ठ-नतदारुवचाः पिबेत ॥ गङ्गाधरः-मृद्वित्यादि। मृदुवस्तिजड़ीभूते जनेऽन्यस्तीक्ष्णो वस्तिरिष्यते। तीक्ष्णवस्तिभिर्विकर्षिते जने स्वादु प्रत्यास्थापनं प्रतिनिरूहवस्तिरिष्यते ॥१२॥ गङ्गाधरः-वातेत्यादि । वातोपसृष्टस्य नरस्य खलूषणद्रव्यनिरूहे यदि दाहादयो रोगाः स्युस्तदा द्राक्षादिना षड्विरेचनशताश्रितीयोक्तेन द्राक्षाकाश्मय्य त्यादिना दशकेन विरेचनोपगेन कथितेन त्रित्कल्कं मात्रया तद्वत् सपिवेत् । तञ्च पानं पित्तादिकान् दोषादिकान् हसा जयेदिति । शुद्धश्च तेन सन् शर्कराघुतां शीतां यवागू पिबेत् ॥१३॥ गङ्गाधरः-अथवाऽतिविरिक्तस्य क्षीणविटकस्य माषयूषण यवागू दापयेत् । कुल्माषात् काञ्जिकात् पानं दापयेदथवा दधि अथवा सुरां पान दापयेत् ॥१४॥ गङ्गाधरः-साममित्यादि । तथातिविरिक्तस्याशयमुपवेशः पुरीषत्यागे शूल: चक्रपाणिः-एतदुक्तवस्तिप्रयोगेऽनभिमते कर्तव्यमाह-मृद्वित्यादि । स्वाइ प्रत्यास्थापनमिष्यत इत्यत्र स्वाइ द्राक्षादिकृतम्। केचित् तदहरेव प्रत्यास्थापनमिच्छन्ति। भास्थापनं लक्ष्यीकृत्य दीयत इति प्रत्यास्थापनम् ॥१२॥ चक्रपाणिः-जातोपसृष्टस्येत्यादौ उष्णैरिति वस्तिविशेषणम्। दाहादयो दाहमोहतवादयो बातपित्तजन्याः। द्राक्षाम्बुणा निवृतपानस्य दाहादिकारके पित्ते वाते चहितत्वं दर्शववाहतद्रीत्यादि। कुल्माष इति भई स्विन्नयवादिमयो भक्ष्यः । 'घुघुनी' इति ख्यातम् ॥ १३ ॥१४॥ चक्रपाणिः-वस्तिमिथ्याप्रयोगादीरितानामतीसारभेदानां चिकित्सितमाह-सामने दित्यादि। • द्राक्षाम्बुणा इति वा पाठः। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy