SearchBrowseAboutContactDonate
Page Preview
Page 1508
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्याया] सिद्धिस्थानम्। ३७३७ पयस्येक्षुस्थिरारास्ना-विदारीक्षौद्रसर्पिषाम् । एकैकप्रसृतो वस्तिः कृष्णाकको वृषत्वकृत् ॥६॥ चत्वारस्तैलगोमूत्र-दधिमण्डाम्लकाञ्जिकात् । प्रसृताः सर्षपैः पिष्टविट्सगानाहभेदनः॥ १० ॥ श्वदंष्ट्राश्मभिदेरण्ड-रसात् तैलात् सुरासवात् । प्रस्मृताः पञ्च यष्टाहात कौन्ती मागधिका सिता॥ कल्को वस्तिस्तु सानाहे मूत्रकृच्छ्रे परो मतः। एते सलवणाः कोष्णा निरूहाः प्रसृता नव ॥ ११ । प्रमृतस्तान् खजेन विमथ्यानुरूपेण विडङ्गपिप्पलीकल्कयुतः स निरूहो वस्तिः षटप्रमृतिकः॥८॥ गङ्गाधर:-पयस्येत्यादि। पयस्या क्षीरकाकोली। क्षीरकाकोलीकाथ एकप्रसृत इक्षुरस एकप्रसृतः शालपर्णीकाथ एकपमृतो रास्नाकाथ एकप्रसृतः भूमिकुष्माण्डरस एकप्रसृतः क्षौद्रस्यकः प्रसृतः सपिष एकममृत इति सप्त प्रस्ताः, एकीकृतः कृष्णाकल्कयुतः खजेन मथितो वस्तिः सप्तप्रसृतिकः ॥९॥ गङ्गाधरः-चखार इत्यादि। तलादीनामेककस्यककप्रसृत इति चतुर्णा चखारः प्रसूताः सर्षपः पिष्टरनुरूपर्युक्तो मथितो वस्तिश्चतुःप्रसूतिकः ॥१०॥ गङ्गाधरः-श्वदंष्ट्रत्यादि। श्वदंष्ट्रादीनां त्रयाणां मिलितानां काथादेकः प्रमृतस्तलादेकः सुराया एक आसवादको यष्टयाहादेक इति पञ्च प्रमृताः, अनुरूपस्तत्र कौन्त्यादीनां कल्क इति सर्व खजेन मथिखा वस्तिः। अत्रानुक्तयोगिकद्रव्यमाह-एत इत्यादि। एते नव प्रमृतयोगाः सलवणा अनुक्तसन्धवलवणयुक्ताः कोष्णा निरूहा उक्ताः॥११॥ भानुपर्णी दन्ती। पयस्येत्यादौ यद्यपि पयस्यादीनां काथो न श्रूयते, तथापि अवान्तरेणैक प्रसूतविधानात् प्रत्येकं पयस्यादिकाथस्य प्रसृतमानत्वम् । वृषत्वकृदिति शुक्रवृद्धिकृत् । श्वदंष्टे. स्यादौ श्रदंष्टाविद्रस्यायनाथस्य प्रसृतमानत्वम्, एवं तेल सुरासवाभ्यां सह पञ्च प्रसूताः पूरणीयाः। सुराकृत भासवः सुरासवः ॥६-११॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy