SearchBrowseAboutContactDonate
Page Preview
Page 1471
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७०० चरक-संहिता। [नेत्रवस्तिव्यापदिको सिद्धिः न वा वहति मन्दस्तु वाह्यश्चाशु निवर्त्तते । स्नेहस्तत्र पुनः सम्यक् प्रणेयः सिद्धिमिच्छता.॥ अतिप्रपीड़ितः कोष्ठे तिष्ठत्यायाति वा गलम्। । तत्र वस्तिविरेकश्च गलपोड़ादि कर्म च ॥ ११॥ . तत्र श्लोकः। नेत्रवस्तिप्रणयने दोषानेतान् सभेषजान् । विद्वांस्तत्वेन मतिमान् वस्तिकम्मोण कारयेत् ॥ १२॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सिद्धिस्थाने नेत्रवस्ति व्यापदिकी सिद्धिर्नाम पञ्चमोऽध्यायः ॥ ५॥ गङ्गाधरः-मन्दवेगदोषमाह-न वेत्यादि। मन्दोऽल्पेन वेगेन वाह्यस्तु वस्तिन वहति तद्गतद्रव्यमाशु निवत्तते निःसरति। तचिकित्सा-तत्र पुनः स्नेहवस्तिः सम्यक् प्रणेय इति। अतिवेगदोषमाह-अतिपपीड़ित इत्यादि। अतिवेगेन प्रपीड़ितो वस्तिः कोष्ठे तिष्ठत्यथवा गलमायाति। तत्र वस्तिविरेकश्च गल. पीड़ादिकं कम्म कार्यमित्यष्टौ वस्तिदोषा उक्ताः॥११॥ " गङ्गाधरः-अध्यायाथेमाह-तत्र श्लोक इति । नेत्रवस्तीत्यादि स्पष्टार्थम् ॥१२॥ गङ्गाधरः-अध्यायं समापयति-अनीत्यादि। अग्निवेशकते तन्त्रे चरकातिसंस्कृते। सिद्धिस्थानेऽष्टमेप्राप्ते पुन ढवलेन तु। प्रतिसंस्कृत एवास्मिन् पञ्चमेऽध्याय एव च। नेत्रवस्तिव्यापत्सिद्धौ वद्यगङ्गाधरेण तु। कृते जल्पकल्पतरौ सिद्धिस्थानेष्टमे किल। स्कन्धे तु पञ्चमाध्याये जल्पाख्या पश्चमीरिता। नेत्रवस्तिव्यापसिद्धौ शाखेयं तु यथार्थवत् ॥५॥ विच्छावस्तिर्वक्ष्यमाणः । अतिपीड़ने कोष्ठे वा तिष्ठमिति इयञ्च ग्यापत् पूर्वाध्याये थाहारं विना दत्तानुवासनविषयतया उक्का, इह तु निरूहस्य अनुवासनस्य अतिपोड़नजन्यतया वोध्यत इति शेषः। तस तु कोष्ठस्थ अप्रवर्त्तमाने वस्तिर्विरेको वा गलपीड़ादि कर्म ज्ञेयम् ॥९-१॥ चक्रपाणिः-संग्रहे नेत्रेत्यादिः स्पष्टार्थः ॥ १२ ॥ इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्तविरधितायामायुर्वेददीपिकायां । घरकतात्पर्यटोकायां सिद्धिस्थानव्याख्यायां नेसवस्तिव्यापसिद्धिव्याख्या . . नाम पञ्चमोऽध्यायः॥५॥. . ... .... । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy