SearchBrowseAboutContactDonate
Page Preview
Page 1468
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri ka Acharya Shri Kailassagarsuri Gyanmandir ५म अध्याया] सिद्धिस्थानम् । ३६६७ मांसलस्निग्धविषम-स्थूलजालकवातलाः। स्निग्धक्लिन्नौ च तानष्टौ वस्तीन् कम्मसु वर्जयेत् ॥ गतिवैषम्यविनत्व-स्त्रावदोर्गन्ध्यविनवाः। फनिलच्युतधार्यत्वं वस्तैः स्याद् वस्तिदोषतः॥४॥ सवातातिद्रु तोत्क्षिप्त-तिर्यगुत्क्षिप्तकम्पिताः। अतिवाह्यगमन्दाति-वेगदोषाः प्रणेतृतः ॥ ५॥ गङ्गाधरः-नेत्रवजनमुक्त्वा वस्तिवर्जनमाह-मांसलेत्यादि। वस्तिर्नाम चम्मेविशेषो मूत्रस्थानम्, स च वस्तियदि मांसयुक्तादिः स्यात् तदा वज्ज्यः स्यादिति। गतिवषम्येत्यादि। वस्तिचर्मणो दोषतो मांसलादिभावात् वस्तेर्वस्तिगतस्य द्रव्यस्य गतिवषम्यं विस्रव स्रावो दौगन्ध्य विसावः फेनिलत्वं च्युतत्वं धार्यख चाष्टमं स्यात् ॥ ४॥ गङ्गाधरः-प्रणेतृदोषानाह-सवातेत्यादि। प्रणेतृतो वद्यस्याक्रियातो भवन्त्येते दोषाः। निःशेषेण वस्तिद्रव्यदाने सवातदानं दोषः। अतिद्रतोत्क्षिप्त तिर्यगबन्ध उक्षिप्तः हस्तकम्पैन कम्पिनः अतिवाझनेत्रं मन्दवेगः अतिवेगश्चति दोषा अष्टौ ॥५॥ ज्ञेयम्। अतिगतिर्दूरे प्रवेशः, भोभो गुदप्रविष्टस्य इतस्ततो गमनम्, गुदपीड़ा पार्धादिगतेन पस्तिद्रवेण योगात् गुदपीड़ा। जिह्मति कुटिला ॥ ९-३॥ चक्रपाणिः-विषमो विषमसंस्थानः । स्थूलो अतिगुणः। जालिका सूक्ष्मानेकच्छिद्रः । वातलो वातदृष्टः, स च तत्र अभिहितस्नेहादेः फेनिलस्वादिना उन्नीयते। स्निग्धो अतिस्निग्धः । लियः शीर्णावयवः। गतिवैषम्यादयो यथाक्रमम् अष्टौ दोषाः वस्तिदोषतो भवन्ति। विनस्वं भामगन्धित्वम् । धार्यत्वं वस्तेरतिक्लिन्नत्वात् विधारणायोग्यत्वं वस्तिपुटकस्य ॥४॥ चक्रपाणि:-सवातेत्यादिप्रणतृदोषा उच्यन्ते। तक्ष सवातवा वस्तौ दुष्टे भवति । तथा अति तस्वमपि प्रणयने निर्गमने च, उक्षिप्तम् ऊद्धीक्षिप्तम्, तिय्यंगुतक्षिप्तं तिर्यक् प्रणिधानम्, कम्पितो दोषो या पीढ़ने विच्छेदं कृत्वा पुनः पीड्यते स ज्ञेयः, नेत्रस्य अतिप्रणयनम् अतिवाह्यम्, .. गुदाप्रविष्टम् औषधं मन्दवेगम, दूरप्रवेशान्तम् भसिपीड़नं सत् भतिवेगम् ॥५॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy