SearchBrowseAboutContactDonate
Page Preview
Page 1445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६७४ चरक-संहिता। वस्तिसूत्रोयसिद्धिः निरूहमात्रा प्रमृताईमाय वर्षे तथा प्रस्ताभिवृद्धिः। आ द्वादश स्यात् प्रसृताभिवृद्धिराष्टादश द्वादशतः परं स्युः ।। इत्यष्टमो भागः पूरणार्थस्य लुम् । इति निरूहेषु द्रव्यमाना। अथ निरूहस्य क्योभेद मात्रामाह-प्रसृतार्द्धमित्यादि। आदेर वयोवर्षे प्रसृतार्द्ध निरूहमात्रा पल. प्रहणम्। वाते तु वृद्ध चतुर्थो भागः स्नेहचतुर्थो भागः प्रसृतद्वयम् । अष्टभाग इति साई प्रसृतः। अस्मिन्नर्थे हारीत:- "काथस्य पञ्चप्रसृता विभागाः स्नेहस्य षष्ठोऽधिके तु पित्ते। स्वस्थ च तत्तु पवने चतुर्थः कफेऽष्टमोऽत्यन्तगते विकल्पः" इति। एषा स्नेहमाता हीनमात्रेऽपि निरूहे क्वाथस्नेहयोरुक्तमात्रानुसारेण योजनीया। शेषाणान्तु मधुकल्कसैन्धवानामिह माता भनियमेनोक्ता, तेषामपि प्रकृत्यादिभेदेनानियतत्वात्। तेन मध्वादीनां प्रकृत्यायनुसारेण प्रकृतमानेन द्वादशप्रस्तत्वं पूरणीयम् । तत्र जतूकर्णप्रत्ययात् सर्वस कल्कपलद्वयं भवति। उक्त हि तन-"चतुम्चि शतिके पुटके पेष्याणां द्विपलं किञ्चिच्च मधुसैन्धवात्"। स्नेहो वक्ष्यमाणः । शेष कषायस्य। वाते तैलषट्पली स्वस्थे च, चत्वारि पित्ते घृतस्य, कफे खोणि तैलस्य इति । सैन्धवन्तु पर्षप्रमाणमस्ति । यतः सुश्रुते-"सैन्धवाक्षं समादाय मधुनः प्रसृतद्वयम्" इत्या कम्। हारीते तु-"क्षौदन्तु देयं प्रसृतप्रमाणं द्वितीयमाहुर्लवणस्य चाक्षम्" इत्युक्तम् । सेन नानावादिना सैन्धवमधुकरुकानां यथोत्तकषायस्नेहकरुकमधुसैन्धवादीनां पूरितांशपूरणचावापैनैव कर्तव्यम्। भावापश्चातानुक्तोऽप्युत्तरख वक्ष्यमाणो वातादिभेदेन मांसरसक्षीरगोमूत्रादिको ज्ञेयः। वक्ष्यन्ति हि-स्निग्धोष्ण एकः पवने निरूहो द्वौ स्वादशीती पयसा च पित्ते। बयः समूताः कटुकोणतीक्ष्णाः कफे निरूहा न परं विधेयाः" इति। हारीतेऽप्युक्तम्-"स्नेहो गुड़ो मांसरसः पयश्च, अम्लानि मूत्राणि च सैन्धवञ्च । एतानि सर्वाग्यपि योजयीत निरूहयोगे मदनात् फलञ्च" इति। यत् तु तन्वान्तरे-द्वादशप्रसृतपूरणं प्रति प्रतिव्यविभागेनोक्कम्, यथा-दत्त्वादौ सैन्धवस्वाक्षं मधुनः प्रसृतद्वयम् । विनिर्मथ्य ततो दद्यात् स्नेहस्य प्रसृतवयम् । एकीभूते ततः स्नेहे कलकस्य प्रसृतं क्षिपेत् । सम्मूर्छितं कषायन्तु चतुःप्रसृतसम्मितम्। वितरेच्च दावापमन्ते द्विप्रसृतोन्मितम् । एवं सुकल्पितो वस्तिदशप्रसृतो भवेत्" इति, तवातविषयमेव, स्नेहस्य वातघ्नत्वात् । किन्वत यच्चतुःप्रसृतं कषायस्य मन्यते, तस्मात् तदनुमतमेव । यदन्ये पठन्ति-"मधुस्नेहनकल्काख्य-कषायावापतः क्रमात् । बोणि षट् द्वेदश त्रीणि पलान्यनिलरोगिणाम्। पित्ते चत्वारि चत्वारि द्वे द्विपञ्च चतुष्टयम् । षटनीणि द्वे दश त्रीणि कफे चापि निरूहणम्" इति । तदस्मत्तन्तानुगनत्वादनुमतमेव। इदानी वयोभेदेन निरूहप्रमाणं दर्शयन्नाह-निरूहेत्यादि। आय वर्षे बालस्य पलमानं निरूहक्काथादि यथोक्तमानानुसारेण वक्तव्यम् । अर्द्धप्रसृताभिवृद्धिः ततः प्रतिवर्ष भवति। तेन द्वादशवर्षे घटप्रसृतो वस्तिर्भवति । द्वादशादृद्ध मष्टादशवर्ष पर्यन्तं प्रतिवर्ष प्रसृतवृद्ध्या द्वादशप्रस्तपूरणं भवति। द्वादशातः परं स्युः इत्यनेनाधिकप्रमाणवस्तिमानं महात्ययस्वकरत्वादननुगतं निषेधयति। तथा हारीते For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy