SearchBrowseAboutContactDonate
Page Preview
Page 1356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमोऽध्यायः। अथातः सुधाकल्पं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥१॥ विरेचनानां सर्वेषां सुधा तीक्ष्णतमा मता। सखातं हि भिनत्त्याशु दोषाणां कष्टविभ्रमात् ॥ तस्मान्नैषा मृदो कोष्ठे प्रयोक्तव्या कदाचन । न दोषनिचये चाल्पे सति मार्गपरिक्रमे ॥२॥ पाण्डुरोगोदरे गुल्मे कुष्ठे दूषोविषार्दिते। श्वयथौ मधुमेहे च दोर्षावभ्रान्तचेतसि ॥ रोगैरेवंविधै स्तं ज्ञात्वा सप्राणमातुरम् । प्रयोजयेन्महावृक्षं सम्यक् स ह्यवचारितः॥ सयो हरति दोषाणां महान्ताः सञ्चयम् ॥३॥ गाधरः-अथोद्देशक्रमात सुधाकल्पमाह-अथात इत्यादि। षविरेचनशवाश्रितीये यदुक्तम्-महावृक्षो भवति विंशतियोगयुक्तः इति, तं विंशतियोगं सुधाकल्पं व्याख्यास्यामः। शेषं पूर्ववत् ॥१॥ गङ्गाधरः--विरेचनानामित्यादि। तस्मात् तीक्ष्णतमखादेषा मृदो कोष्ठे कदाचन न प्रयोक्तव्या। दोषनिचये दोषसञ्चयेऽल्पे सति मार्ग परिवत्त्ये क्रमणे चन प्रयोक्तव्या ॥२॥ गङ्गाधरः-प्रयोगाई माह-पाण्डित्यादि। सपाणं सबलं शाखा सम्यगवचक्रपाणिः-षोडशसंख्याभिधायकतिल्वककल्पानन्तरं यथाक्रममधिकसंख्याप्रयोगाभिधानक्रमात् विंशतियोगाभिधायकसुधाकल्पाऽभिधीयते। इतश्चानन्तरमतिरिक्तम ख्याभिधानक्रमेणव नवत्रिंशत्प्रयोगाभिधायकसुधाकल्पोऽभिधाम्यते । विरेश्नानामिति विरेचनद्रव्याणाम् । कष्टविक्रमादिति खसाध्यविभ्रमजनिका। तस्मादिति अतितीक्ष्णत्वात् कष्टविनमत्वाच। सति मार्गपरिक्रम इति उपक्रममागान्तरे सति न सुधा प्रयोकव्या, तेन गत्यन्तरासम्भव एव सुधा प्रयोक्तव्या इत्यर्थः ॥ १२॥ चक्रपाणिः-पाण्डुरोगेल्यादौ मधुशब्देन प्रमेहा एवोच्यन्ते, विशिष्टस्तु वातिकमधुमेहश्चासाध्य एष। तेन तं प्रति विरेचनोपदेशोऽनर्थक एव स्यात्। मधुमेहरब्दश्च यथा प्रमेहमान For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy