SearchBrowseAboutContactDonate
Page Preview
Page 1354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९म अध्यायः कल्पस्थानम्। ३५८३ तिल्वकस्य कषायण कल्केन च सशर्करः। सघृतः साधितो लेहः स च श्रेष्ठं विरेचनम् ॥ ६ ॥ अष्टाष्टौ त्रिवृतादोनां मुष्टोंस्तु सनखान् पृथक् । द्रोणेऽपां साधयेत् पाद-शेषे प्रस्थं घृतात् पचेत् ॥ पिष्टैरेव हि विल्वांशः समूत्रलवणैर्भिषक् । पत्तवा मात्रां पिबेत् काले श्रेष्ठमेतद् धिरेचनम् ॥ लोध्रकल्केन मूत्राम्ल-लवणैश्च पचेद घृतम् । चतुरङ्गालकल्पेन सर्पिषी द्वे च साधयेत् ॥७॥ कल्पेन कार्यः। तद् यथा। तिल्वकमूलखकषायेण गुडान्वितं त्रिचर्ण पक्त्वा लहं कुर्यात् मात्रया तं लिह्यादित्येकः । त्रिफलाया इत्यादि । त्रिफलायाः काथेन संर्पिश्च फाणितश्च दत्त्वा पत्त्या पाकशेषे लोध्रचूर्ण प्रक्षेपविधिना दत्वा लेहमवतारयेत् । शीते मधु दद्यात् । इत्येको लेहः। तिल्वकस्येत्यादि । तिल्वकमूलखककषाये तत्तिल्वकमूलखकल्क समानशर्करायुक्तं किञ्चिद घृतमनुरूपं दत्त्वा पचेत्, लेहीभूतमवतारयेत् । तत् श्रेष्ठं विरेचन मिति तृतीयो लेहः॥६॥ गङ्गाधरः-घृतेन चतुरो योगानाह-अष्टाष्टावित्यादि। अपामार्गतण्डुलीयोक्तानां त्रिवृतादीनां सप्तभ्यस्विटतात्रिफलादन्तीनीलिनीसम्मलाभ्यः पृथगष्टाष्टौसनखान् मुष्टीन् जलद्रोणे पाचयेत्, पादशेषे काथे घृतात् प्रस्थं त्रितादीनां सप्तभिः पृथग विल्वांशमू बलवणेन विड्लवणेन विल्वांशेन सहितः पिष्टः कल्कैः पचेत् । तस्य घृतस्य मात्रां पिबेदित्येकं घृतम्। लोध्रेत्यादि। घृतप्रस्थं लोध्रमूलखककल्केन पादिकेन समगोमूत्रमम्लद्रव्यं वदरादि तस्य रसं त्रिगुणमिति चतुर्गुणे द्रवे पत्त्यावतार्य पूतं कृता सैन्धवमष्टांशं प्रक्षिप्प स्थापयेदिति द्वितीयं घृतम्। अपरे द्वे चाह-चतुरङ्गुलेत्यादि। द्वे सर्पिषी चतुरालकल्पेन इत्यादिनोक्तविधानेन। तेन अत्र तिल्वमक्काथेन गुड़ान्विधत्रिवृच्च र्ण पत्तवा लेहः कर्त्तव्यः । त्रिफलाया इत्यादिना द्वितीयो लेहः। तिल्वकस्येत्यादिना तृतीयः॥६॥ चक्रपाणि:-अष्टाष्टावित्यादिना प्रथमं घृतम्। सनखानिति विद्यमाननखान्। भत्र विवृदादिगृहीतलोध्रस्य प्रधानत्वात् द्विगुणो भागो भवति । उक्तं हि जतूकणे-त्रिवृदादिद्विगुणः काथ इति । समभागत्वे लोध्रस्य प्रयोगस्य केन विशेषः स्यात् । तस्मात् यथान्याख्यातमेव साधु । लवणमप्यत पलांशमेव । लोध्रत्यादि द्वितीयं घृतम्। चतुरङ्ग लेत्यादिना घृतद्वयमतिदिश्यते। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy