SearchBrowseAboutContactDonate
Page Preview
Page 1325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५५४ चरक-संहिता। [वसककल्पः मधुकस्य कषायेण कोविदारादिभिस्तथा। निशि स्थितं विमृदातत् लवणक्षौद्रसंयुतम् ॥ पिबेत् तदुवमनं श्रेष्ठं पित्तश्लेष्मनिबर्हणम् ॥४॥ अष्टाहं पयसार्केण तेषां चूर्णानि भावयेत् । जीवकस्य कषायेण ततः पाणितलं पिबेत् ॥ फलजीमूतकेदाकु-जीवन्तीनां पृथक् पृथक् ॥५॥ सर्षपाणां मधूकानां लवणस्याम्बुना पुनः। कुशरणाथवा युक्तं प्रदद्याद वमनं भिषग् ॥ ६ ॥ वत्सकफलानामन्तनखं मुष्टिं जर्जरीकृत्य कुट्टयिता मधुकस्य कषायेण कोविदारादीनामष्टानामन्यतमेन कषायेण च भावयेत् । निशि स्थितं तत्र तत्र काथे निशि स्थितमेतद्वत्सकवीजं मुष्टिमितं लवणक्षौद्रसंयुतं पिबेत् । इति नवसु कषायेषु नव योगाः॥४॥ _ गङ्गाधरः-अष्टाहमित्यादि। आर्केण पयसाऽष्टाहं तेषां वत्सकवीनानां चूणोनि भावयेत्, ततस्तस्य पाणितलं कर्ष जीवकस्य कषायेण पिबेत् । इत्येक। फलेत्यादि। जीवन्त्यन्तानां चतुर्णामन्यतमैकैककषायेण तदाकैपयोभिरष्टाहभावितवत्सकवीजचूर्णानि पाणितलं पिबेदिति चबार इति चूर्णे पश्च योगाः॥५॥ गङ्गाधरः-सर्षपाणामित्यादि । सर्षपाणामम्बुना वत्सकवीजकल्कं दद्यात्, अथवा मधूकानामम्बुना प्रदद्यात् अथवा लवणस्याम्बुना प्रदद्यादिति सलिले त्रयो योगाः। अथवा कशरेण तिलकल्केन युक्तं वत्सकवीजकल्कं प्रदधादिति कुशरे त्वेको योग इत्यष्टादश योगाः वत्सककल्पे मोक्ता इति ॥६॥ शुष्पाणि। तेषामन्तर्मखमित्यादिना कषायैव योगानाह। क्षौसैन्धवयोगो यपि सम्बवमनेष्वेव सामाम्येन विहितः, तथापीह लवणचौदसंयुतमितिवचमाइत्कर्षों लपणीश्ववयोरभिधीयते ॥१-४॥ चक्रपाणि:- भष्टाहमित्यादिना पञ्च चूर्णयोगामाह ॥६॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy