SearchBrowseAboutContactDonate
Page Preview
Page 1251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८० चरक संहिता। योनिब्यापश्चिकिरिकतम स्रावच्छेदार्थमभ्यक्तां धूपयेद् वा घृतप्लुतैः। सरलागुग्गुलुपवैः सतैलकटुमत्स्यकैः ॥ काशीशं त्रिफला काक्षी समझाम्रास्थि धातकी। पच्छिल्ये क्षौद्रसंयुक्तश्चू! वैशद्यकारकः ॥ पलाशसर्जजम्बृत्वक-समझामोचधातकी। सपिच्छिला परिक्लिन्ना स्तम्भनः कल्क इष्यते ॥ स्तब्धानां कर्कशानाञ्च कायं माईवकारकम् । धारयेद् वेशवारं वा कृशरां पायसं तथा ॥ दुर्गन्धानां कषायः स्यात् तोवरः कल्क एव च । चों वा सर्वगन्धानां पूतिगन्धापकर्षणः ॥५१॥ एवं योनिषु शुद्धासु गर्भ विन्दन्ति योषितः। अदुष्टे प्राकृते वीजे ® गर्भावक्रमणे सति ॥ अथवा कषायरसद्रव्याणां सर्वशो वर्तिसेकादिभिः प्रयोगः। स्रावेत्यादि। योनेः खावस्य छेदार्थ स्राविणी योनि स्नेहाभ्यक्तां सतैलकटुमत्स्यकस्तैलपोष्ठीमत्स्याभ्यां सहितः सरलागुगगुलुयवैः पिष्टैचूंतप्लुतेधूपयेत्। काशीशमित्यादि। योनेः पैच्छिल्ये काशीशादीनां चूणे: क्षौद्रसंयुतो योनौ देयः। काक्षी आड़कीमूलम्। पलाशेत्यादि। मोच आमकदली। एषां कल्कः सपिच्छिलादि. स्तम्भनः। स्तब्धानामित्यादि। मादेवकारकं किञ्चिदाह वेशवारं वा कुलासं वा पायसं वा योनौ धारयेत्। दुर्गन्धानामित्यादि। दुर्गन्धानां योनीम कषायो रस एव यत्र यत्र द्रव्ये तत्तद् द्रव्यस्य चूर्णस्तुवरीकल्क आढकीकलाचूर्णो वा सर्वगन्धानां द्रव्याणां चूर्णो वा पूतिगन्धापकर्षणः॥५१॥. गङ्गाधरः-एवमित्यादि। एक्मनेन प्रकारेण योनिषु शुद्धा योषितो गर्भ विन्दन्ति, कथं विन्दन्ति ? प्राकृतेऽदुष्टे खल्वविकृते वीजे रेतसि सिके सति गर्भावक्रमणे च परलोकात् जीवावक्रमणे गर्भाशयप्रवेशे सति। यदि वीज सहजगुणसम्मन्ने शुक्रशोणितीजे अदुष्टे सति गर्भ योषितः विन्दन्ति। जीवोपक्रमणं पूर्वप्रेरितात् सुयोगाद भवति । यस्मात् पुरुषस्य शुक्रमप्यन्न कारणम्, वस्मात् शुक्रस्यापि परापूर्णिमा * जीवोपक्रमणे इति चातः पाठः। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy