SearchBrowseAboutContactDonate
Page Preview
Page 1250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०श अध्यायः ] चिकित्सितस्थानम्। ३४७९ यच्च वातविकाराणां कम्मोक्तं तच कारयेत् । सर्वव्यापत्सु मतिमान् महायोन्यां विशेषतः ॥ न हि वाताहते योनिर्नारीणां संप्रदुष्यति। शमयित्वा तमन्यस्य कुर्याद दोषस्य भेषजम् ॥५०॥ रोहीतकान्मूलकल्कं पाण्डरेऽसृग्दरे पिबेत् । जलेनामलकीवीज-कल्कं वा ससितामधुम् ॥ मधुनामलकं चूर्ण रसं वा लेहयेच्च ताम् । न्यग्रोधस्य कषायेण लोध्रकल्कं तथा पिबेत् ॥ प्रास्रावे क्षौमपट्ट वा भावितं तेन धारयेत् । श्लक्ष्णत्वकचूर्णपिष्टं वा धारयेन्मधुना कृतम् ॥ योन्या स्नेहाक्तया लोध्र-प्रियङ्गमधुकस्य वा। धार्या मधयुता वतिः कषायाणाश्च सर्वशः॥ यच्चत्यादि। सर्वयोनिव्यापत्सु कस्माद वातविकारोक्तं कम्म कुर्यात् ? तत आह-न हीत्यादि। तं वातमादो शमयिखान्यस्य दोषस्य भेषजं कुयात् ॥४९ । ५०॥ गङ्गाधरः-रोहीतकेत्यादि। पाण्डरे श्वेतवण । जलेनेति पूवणान्वयः । ससितामधुमामलकीकल्कं पिबेत् । मधुनेत्यादि। पाण्डरेऽसन्दरे आमलकस्य चूर्ण रसं वा मधुना लेहयेत् न्यग्रोधस्य कषायेण वा लोध्रकल्क लेहयेत् । आस्राव इत्यादि। आस्रावे योनेस्तेन न्यग्रोधकषायेण लोध्रकल्केन वा भावितं क्षौमपट्ट योनौ धारयेत् । न्यग्रोधस्य लोध्रस्य वा श्लक्ष्णं खचूर्ण खपिष्टं वा मधुना द्रवीकृतं क्षौमपट्ट योनौ धारयेत् । योन्येत्यादि । लोध्रादीनां पिष्टानां मधुयुता कृता वतिः स्नेहाक्तया योन्या धार्यो। तेषां लोध्रादीनां कपायाणाच उत्तरवस्तिश्च । भामूत्रकालत इति भूतकालपर्यन्तं बन्धनं कुर्यात् । सर्वव्यापत्सु वातचिकित्साकरणे हेतुमाह-न हि वाताहत इत्यादि ॥ ४७-५०॥ पक्रपाणिः- पाण्डुरे प्रदर इति श्वेतप्रदरे। भावितं तेनेति न्यग्रोभस्वकषायेण भावितम् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy