SearchBrowseAboutContactDonate
Page Preview
Page 1202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऊनत्रिंशोऽध्यायः। अथातो वातरक्तचिकित्सितं व्याख्यास्यामः, इति ह स्माह भगवानात्रेयः॥१॥ हुताग्निहोत्रमासीनमृषिमध्ये पुनर्वसुम् । पृष्टवान् गुरुमेकाप्रमग्निवेशोऽग्निवर्चसम् ॥ अग्निमारुततुल्यस्य संसर्गस्यानिलासृजोः। हेतुलक्षणभैषज्यान्यथास्मै गुरुरब्रवीत् ॥२॥ लवणाम्लकटुक्षार-निग्धोष्णाजोर्णभोजनः । किन्नशुष्काम्बुजानूप-मांसपिण्याकमूलकः ॥ कुलस्थमाषनिष्पाव-शाकादिपललेक्षुभिः। दध्यारनालसौवीर-शुक्ततक्रसुरासर्वः॥ - गङ्गाधरः-अथोदिष्टक्रमाद वातरक्तचिकित्सितमाह-अथात इत्यादि । सर्च पूर्ववद् व्याख्येयम् ॥१॥ गङ्गाधर:-हुताग्निहोत्रमित्यादि। अनिलासृजोः संसर्गस्य वातरक्तस्य, अयेत्येवं पृष्टवतेऽस्म अग्निवेशाय ॥२॥ गङ्गाधरः-लवणाम्लेत्यादि। क्लिन्नं वा शुष्कं वाम्बुजादिमांसम् । पललं पक्रपाणिः-वातव्याधिचिकित्सितानन्तरं वातरक्तचिकित्सितमुच्यते। वातरक्ताभ्यां जनितो म्याधिः वातरक्तं किंवा वात एव अवस्थान्तरप्राप्तं वातरक्तम्। अग्निमारुततुल्यस्येत्यनेन वातरक्तस्य दुर्निवारत्वं शीघ्रकारित्वचाह। लवणेत्यादिना हेतुमाह । प्रायशः सुकुमाराणामित्यनेन सुकुमारधारीरे लवणादिहेतुसेवया शीघ्रं दृष्टवातशोणितं सम्भवतीति दर्शयति । संसृष्टमन सुरून भुजते तेषां संसृष्टान्नसुखभोजिनाम् । अस लवणानि यद्यपि वातशोणितहेतुतयोक्तानि तथापि शोणितइष्टिकारणम् एतत् प्राधान्यात् ज्ञेयम् । वातदृष्टिकारणन्तु कपायेत्यादिनोक्तम्, तर सणादि For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy