SearchBrowseAboutContactDonate
Page Preview
Page 1187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४१६ चरक-संहिता। वातम्याधिचिकिस्सितम् वृषमूलगुडूच्योश्च द्विशतस्य शतस्य तु।। चित्रकात् साश्वगन्धाच्च काथे तैलाढकं पचेत् ॥ .. सक्षीरं वायुना भग्ने दद्यात् जर्जरित तथा। प्राक्तैलावापसिद्धश्च भवेदेतद् गुणोत्तरम् ॥ ५८॥ रास्नाशिरीषयष्टाह्व-शुण्ठीसहचरामृताः। श्योणाकं दारुकं मांसी-हयगन्धात्रिकण्टकाः ॥ एषां दशपलान् भागान् कषायमुपकल्पयेत् । ततस्तेन कषायेण सर्वगन्धैश्च कार्षिकैः ॥ दध्यारनालमाषाम्ल-मूलकेचरसैः शुभैः। पृथक् प्रस्थोन्मितः साई तैलप्रस्थं विपाचयेत् ॥ प्रीहपार्श्वग्रहश्वास-कासमारुतकोपनुत् । रास्नातैलमिति ख्यातं पुनर्वसुनिदर्शितम् ॥ ५६ ॥ रानातैलम्। गङ्गाधरः-वृषमूलेत्यादि। वृषमूलस्य शतपलं गुडूच्याः शतपलमिति द्विशतस्य चित्रकात् शतपलस्याश्वगन्धायाः शतपलस्य च काथे एककेंद्रोणजळे पंखा षोड़शषोदशशरावावशेषे तैलाढकं समक्षीरमकल्लं पचेत्। वृष. मूलादितैलम् । एतत्तैलं पाक तैलस्य बलाचित्रकसैन्धवादिनतदाब्वन्तः कल्कै सिद्धश्च गुणोत्तरं स्यादकल्कादस्मादिति ॥५८॥ सकल्कषमूलादितलम् । गङ्गाधरः-रास्नेत्यादि। रास्नादीनां त्रिकण्टकान्तानामेकादशानां प्रत्येक दशपलमष्टगुणे जले पक्त्वा पादशेषे काथे दध्यादीनां प्रत्येकं प्रस्थमितैः सह कार्षिकैः सर्वगन्धेस्तैलप्रस्थं विपाचयेत् ॥ ५९॥ रास्नातैलम् । चक्रपाणिः-वृषमूलेत्यादौ अश्वगन्धाचित्रकाभ्यां मिलिताभ्यां काथे। प्राक् तैलात् 'नोपसिद्ध मिति मूलकस्वरसेत्याइयत्ततलेन समं सिद्धम्। द्विगुणोत्तरमिति पाठे वृषमूलादिकाथसिदात् बहार द्विगुणं श्रेष्ठम् ॥५॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy