SearchBrowseAboutContactDonate
Page Preview
Page 1186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दश अध्यायः ] चिकित्सितस्थानम् । एष कल्पस्तु बलायाः प्रसारण्यश्वन्धयोः । क्वाथकल्कपयोभिर्वा बलादीनां पचेत् पृथक् ॥ ५६ ॥ ____ रास्नादितलम् । मूलकस्वरसं क्षीरं तैलं दध्यम्लकालिकम् । तुल्यं विपाचयेत् कल्कैर्बलाचित्रकसैन्धवैः॥ पिप्पल्यतिविषारास्ना-चविकागुरुचित्रकैः। भल्लातकवचाकुष्ठ-श्वदंष्ट्राविश्वभेषजैः॥ पुष्कराह्वशटीबिल्व-शताह्वानतदारुभिः । तत् सिद्धं पोतमत्युग्रान् हन्ति वातात्मकान् गदान् ॥ ५७॥ ........... मूलकाद्यतेलम् । गङ्गाधरः-एष इत्यादि। एष रास्नातैलकल्प एवं बलायाः गोरक्षतण्डुलायाः प्रसारण्या अश्वगन्धायाच। तद्यथा। वलायाः सहस्रपलं दशद्रोणजले पक्त्वा पादावशषे निय्यू'हे हैमवतैर्गन्धैरमृतातैलोक्तरेलादाः कल्कः पादिकैस्तैलद्रोणं विपाचयेदिति बलातैलम्। तथा प्रसारण्याः सहस्रपलं दश द्रोणे जले पक्त्वा पादशेषे निय्यू हे हैमवतैर्गन्धैरमृतातैलोक्तरेलादाः पादिकै. स्तैलद्रोणं पचेदिति प्रसारणीतैलम्। तथाश्वगन्धायाः सहस्रपलं दशद्रोणे जले पक्त्वा पादशेषे नियहे हैमवतैर्गन्धैरमृतातैलोक्तरेलाद्यपादिकैस्तैलद्रोणं विपाचयेदिति अश्वगन्धातैलम् । काथेत्यादि। बलादीनां बलाप्रसारण्यश्वगन्धानां प्रत्येकं काथश्चतुर्गुणः पादभागः कल्कः समक्षीरं तैलं पचेदिति । बलातेलप्रसारणीतलाश्वगन्धातैलानि ॥५६॥ - गङ्गाधरः-मूलकेत्यादि। मूलकस्वरसञ्च क्षीरमम्लदधि चाम्लकाञ्जिकञ्च तैलञ्च तुल्यं बलादिभिर्दावन्तैः कल्कैः पादिकैर्विपाचयेत् । चित्रकद्वयं श्वेत. रक्तभेदादिह ग्राह्यम्। तत् सिद्ध तैलं पीतम् ॥ ५७॥ मूलकादितैलम् । चक्रपाणिः-एष कल्प इत्यनन्तरोत्तेषु बलादिष्वपि वक्तव्यः ॥ ५६ । ५७ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy