________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः]
चिकित्सितस्थानम् ।
२३४५ कुर्वते ये तु वृत्तार्थं चिकित्सापण्यविक्रयम्। ते हित्वा काञ्चनं राशिं पांशुराशिमुपासते ॥ २३ ॥ . दारुणैः कृष्यमाणानां गदवैवस्वतक्षयम् । छित्त्वा वैवस्वतान् पाशान् जीवितश्च प्रयच्छति ॥ धम्मार्थदाता सशस्तस्य नेहोपलभ्यते। न हि जीवितदानाद्धि दानमन्यद् विशिष्यते ॥ परो भूतदया धर्म इति मत्वा चिकित्सया। वर्त्तते यः स सिद्धार्थः सुखमत्यन्तमश्नुते ॥ २४ ॥
गङ्गाधरः-धर्माथ चिकित्साफलमुक्त्वा वृत्त्यर्थं चिकित्साफलमाहकुते इत्यादि। वृत्त्यर्थं धनार्थम् । चिकित्सायाः पण्येन इयन्मितं धनं मां त्वं दास्यसि इत्युक्तोऽथाहं तद दास्यामीति प्रतिश्रुत्य पणं कारयिला ये विक्रयं कुव्वेते ते काञ्चनं राशिं स्वर्णस्य राशिं त्यक्त्वा पांशुराशिम् उपासत भजन्ते यथा तथा सर्वातिवर्तिधर्म विहायाथ लभन्ते इति भावः ॥२३॥
गङ्गाधरः ननु भूतेषु दयया चिकित्सायां कथं सर्वातिवर्ती धर्मों वर्त्तते इत्यत आह--दारुणैरित्यादि। दारुणैर्गदैः वैवस्वतक्षयं यमराजभवनं कृष्यमाणानां प्राणिनां छित्त्वा ववस्वतान् पाशान् यमपाशं मोचयिखा जीवितं भिषक् धर्मार्थ प्राणिभ्यः प्रयच्छति यस्मात् तस्मात् तस्य चिकित्सकस्य सदृशोधार्थदाता इह त्रिलोक्यां नोपलभ्यते। ननु कस्मादित्यत आह-न हीत्यादि। हि यस्मात् । जीवितदानादन्यद दानं न हि विशिष्यते। भूतेषु दयया चिकित्सायाः फलान्तरमाह-पर इत्यादि। भूतदया भूतेषु दया पर उत्कृष्टो धर्म इति मला यश्चिकित्सया वर्त्तते स सिद्धार्थः सन्नत्यन्त मुखं ब्रह्म निर्वाणमश्नुते अन्तातिक्रान्तं सुखन्तु आनन्दमयस्य भवतीति ॥२४॥
चक्रपाणिः-चिकित्सैव पण्यं विक्रेतव्यमिति चिकित्सापण्यम् ; ते हित्वेत्यादौ धर्मार्थ क्रियमाणचिकित्सा महाफलत्वेन काञ्चनराशितुल्या, इतरा त्वसारकल्पा पांशुराशितुल्या ॥ २३ ॥
चक्रपाणिः-वैवस्वतक्षयमिति यमगृहम् ॥ २४ ॥
For Private and Personal Use Only