SearchBrowseAboutContactDonate
Page Preview
Page 1057
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .३२८६ चरक-संहिता। [द्विवणीयचिकित्सितम् शुष्का महारुजः स्तब्धा ये व्रणा मारुतोत्तराः । स्वेद्याः शङ्करकल्पेन ते स्युः कृशरपायसैः॥ ग्राम्यवैलाम्बुजानूपैवेशवारैः सुसंस्कृतैः। उत्कारिकाभिश्चोष्णाभिः सुखो स्याद् व्रणितस्तथा ॥३१॥ सदाहा वेदनावन्तो ये व्रणा मारुतोत्तराः। तेषां तिलानुमाञ्चैव भृष्टान् पयसि निर्वृतान् । तेनैव पयसा पिष्टा दद्यादालेपनं बुधः॥ बला गुडूची मधुकं पृश्निपर्णी शतावरी । जीवन्ती शर्करा क्षीरं तैलं मत्स्यवसा घृतम् । संसिद्धा समधूच्छिष्टा शूलनी स्नेहशर्करा ॥ ३१॥ गङ्गाधरः-इसि सन्धानमुक्त्वा स्वेदमाह। शुष्का इत्यादि। शुष्कादयो मारुतोत्तरा ये व्रणास्ते शङ्करस्वेदकल्पेन स्वेद्याः स्युः, कैः ? कुशरपायसैः कुशरैस्तिलकल्कैः पायसैश्च। ग्राम्यादिमांसः वेशवारीकृतैर्वा स्वेद्याः। तथा उष्णामिरुत्कारिकाभिर्यवादीनां स्वेद्याः स्युः, तथा सति व्रणितः मुखी स्यात् ॥ ३१ ॥ गङ्गाधरः-इति स्वेदमुक्त्वा व्रणानां शमनलेपनमाह। सदाहा इत्यादि। सदाहादिवातोत्तरव्रणेषु भृष्टांस्तिलानुमाश्च भृष्टां पयसि क्षिप्ता शीतीकृत्य तेनैव पयसा पिष्ट्वा लेपनं व्रणेषु दद्यात्। दाहादिशान्तिर्भवति । षलेत्यादि। क्षीरं गव्यम्, तैलं तिलस्य । मत्स्यवसा रोहितादिमत्स्यतैलम् । घृतं गव्यम् । सलमत्स्यवसाघृतानि समानानि मिलितानां पादिकं कल्कं बलादीनां सीरं चतुर्गुणं पत्वा वस्त्रेण पूला तस्मिन् स्नेहे उष्णे सति मधृच्छिष्टमष्टमांशं शर्करा तत्समां प्रक्षिपेदियं संसिद्धा स्नेह शर्करा व्रणशुलनी प्रलेपनात् । स्नेहशर्करेति वचनादत्र पक्षप्या शर्करा मधूच्छिष्टं मिलिखा पादिकमिति ॥३॥ दिति विसविचिकित्सितात् । बला गुढ़ चीत्यादि। अत बलादीनि पिष्टानि तथा शर्करा क्षीरमधूष्छिष्टतैलादिभिः उत्कारिकां कृत्वा, अन्ये तु बलादिकल्केन तलादिस्नेहं चतुर्गुणं सायित्वा स्नेहपानादिकं मधूच्छिष्टप्रक्षेपं प्राहुः। स्नेहस्था संहतावस्थितत्वात् मधुशर्करावत For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy