SearchBrowseAboutContactDonate
Page Preview
Page 1047
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२७६ चरक-संहिता। द्विवगीयचिकित्सितम् सपिस्तैलवसापूय-रक्तश्यावाम्लपूतिकाः। वणानां व्रणगन्धरष्टौ गन्धाः प्रकीर्तिताः ॥ १२॥ लसीकाजलपूयामृग्धरिद्रारुणपिञ्जराः । कषायनीलहरित-स्निग्धरुक्षसितासिताः इति रूपैः समुद्दिष्टा व्रणलावाश्चतुर्दश ॥ १३ ॥ विसर्पः पक्षघातश्च शिरस्तम्भाऽपतानकः । मोहोन्मादव्रणरुजा ज्वरस्तृष्णा हनुग्रहः॥ कासर्दिरतीसारो हिका श्वासः सवेपथुः । षोडशोपद्रवाः प्रोक्ता व्रणानां व्रणचिन्तकः ॥ १४ ॥ चतुर्विंशतिरुदिष्टा दोषाः कल्पान्तरेण च । स्नायुक्लेदाच्चिराच्छेदाद गाम्भीर्यात् क्रिमिभक्षणात् ॥ गङ्गाधरः-अथाष्टौ गन्धानाह-सर्पिरित्यादि । सर्पिर्गन्धादयोऽष्टौ गन्धाः। श्यावगन्धिधमगन्धिः ॥१२॥ गङ्गाधरः-अथ चतुद्देश परिस्रावानाह। लसीकेत्यादि। लसीकादयः चतुर्दश व्रणस्रावाः ॥१३॥ गङ्गाधरः-अथ व्रणानामुपद्रवान् षोड़शाह। विसर्प इत्यादि। व्रणानां रुजातिवेदना। विसर्पादयः षोडशोपद्रवाः॥१४॥ गागाधरः-अथ चत्वारश्च विंशतिश्चेति चतुर्विशतिर्दोषा व्रणानामुच्यन्ते । चतुर्विंशतिरित्यादि। कल्पान्तरेण च न तु वातादिभेदेन। तत् कल्पान्तरं दर्शयति। स्नायुक्लेदादित्यादि। व्रणानामप्रशमहेतवो भवन्ति चतुविशति >षाः। तद्यथा। स्नायुक्लेदश्च चिराच्छेदश्च गाम्भीर्यञ्च क्रिमिभक्षणश्च निदृशः। सपिरित्यादिना गन्धनिद्दशः। श्यावगन्धं दध्यादेः समानं गन्धमाहुः। केचित् तु शवस्य गन्धः शावः , अम्लसहचरितगन्धोऽम्लगन्ध इति वदन्ति ॥ १०-१२ ॥ चक्रपाणिः-लसीकेत्यादिना सावानाह। प्रकारान्तरोहिष्टान् चतुर्विंशतिदोषानाह For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy