SearchBrowseAboutContactDonate
Page Preview
Page 1046
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५श अध्यायः चिकित्सितस्थानम् । ३२७५ दर्शनप्रश्नसंस्पर्शः परीक्षा त्रिविधा स्मृता। वयोऽवस्थाशरोराणामिन्द्रियाणाञ्च दर्शनात् ॥ हेत्वर्तिसात्म्याग्निबलं परीक्ष्यं वचनाद बुधैः। स्पर्शान्मार्दवशैत्ये च परीक्ष्ये सविपर्याये ॥६॥ श्वेतोऽवसन्नचांति-स्थूलचम्मोतिपिञ्जरः। नीलः श्यावोऽतिपिड़को रक्तः कृष्णोऽतिपूतिकः॥ रोप्यः कुम्भीमुखश्चेति प्रदुष्टा द्वादश व्रणाः॥१०॥ त्वक्सिरामांसमेदोऽस्थि-स्नायुमन्तिराश्रयाः। वणस्थानानि निर्दिष्टान्यष्टावेतानि संग्रहे ॥ ११ ।। गङ्गाधरः-तेषां त्रिधा परीक्षामाह-दर्शनेत्यादि। दर्शनेन परीक्षामाहवय इत्यादि। वय-आदीनां दर्शनात् परीक्षा। वचनात् प्रश्नाद बुधैर्हखादि परीक्ष्यम् । स्पर्शान्मादेवादि परीक्ष्यम्, काठिन्यमुष्णवञ्च तद्विपरीतम् ॥ ९॥ गङ्गाधर:-अथ द्वादश प्रदुष्टानाह-श्वेत इत्यादि। श्वेतोऽवसनचम्मों च अतिस्थूलचा च। अतिपिञ्जरश्च नीलश्च श्यावश्वातिपिड़कश्च रक्तश्च कृष्णश्चातिपूतिकश्च रोप्यश्च कुम्भीमुखश्च । इति द्वादश प्रदुष्टा व्रणाः ॥१०॥ गङ्गाधरः-अथाष्टौ स्थानान्याह-खगित्यादि। अन्तरमभ्यन्तरम् ॥११॥ चक्रपाणि:-परीक्षावैविध्यं विभजते-दर्शनेत्यादि। इन्द्रियाणि च यद्यपि अतीन्द्रियत्वात् अनुमानगम्यानि, तथापीह तदधिष्ठानानां हान्द्रयशब्देनोपादानम्। अग्निश्च यद्यपि अग्निं जरण. शक्तयेति वचनादनुमानविषयोक्तस्तथापि प्रश्नेनाग्निरवगम्यते एवेति कृत्वा इह वचनपरीक्षणीयतेवोक्ता। सविपर्यये इति काठिन्यौल्ययुक्ते। अनुमानञ्च यद्यपि परीक्षाधिकारे प्रोक्तं "द्विविधा परीक्षा ज्ञानवतां प्रत्यक्षमनुमानञ्चेत्यादिना तथाप्यनुमानस्य प्रत्यक्षपूर्वकत्वम्,” किन्तु दर्शनपूर्वकस्वादनुमानस्य दर्शनादिना अनुमानमपि इन्द्रियादिग्राहकं संगृहीतमुक्तमिति पश्यामः । दशेनशब्दश्चात्र सामाडपलब्धिवचनः। तेन व्रणगतगन्धेनापि प्रणपरीक्षणं संगृहीतं भवति । दर्शनशब्देन च गृहीतोपदर्शनेति भूयसा व्याप्रियमाणत्वात् ॥९॥ चक्रपाणिः-श्वेतोपसन्नत्यादिना प्रदृष्टवणानाह। रोप्यलक्षणं तन्त्रान्तरादवगन्तव्यम् । तथाहि भोजः-"रूढ़ा व्रणाः प्रफुप्यन्ति अन्तर्दोषाः पुनःपुनः। वहिदुष्टा भवन्स्येव रोप्यास्ते तु प्रकीर्तिताः" इति । एतेषामेव श्वेतादीनां भेदानां चतुर्विंशतित्वं दर्शयवाह-कल्पेनानेनेति । व्रणष्टिकारककारणयोगभेदेन भिद्यमानाः चतुर्विशतिभेदा भवन्तीत्यर्थः । त्वगित्यादि स्थान* इतः परं वक्ष्यमाणः 'चतुर्विंशतिरुद्दिष्टा' इत्यादिपाठः क्वचिद् दृश्यते । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy