SearchBrowseAboutContactDonate
Page Preview
Page 958
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः शारीरस्थानम्। २११६ दशमे त्वनि सपुत्रा स्त्री सर्वगन्धौषधैौरसर्षपलोधेश्च स्नाता लवहत वस्त्रपरिहिता पवित्रेष्टलधुभूषणवती च सुसंस्पृश्य मङ्गलानि उचिताम् अर्चयित्वा च देवतां शिखिनः शुलवाससोऽव्यङ्गांश्च ब्राह्मणान् स्वस्ति वाचयित्वा कुमारमहतेन शुचिवाससाच्छादयेत्। प्राकशिरसमुदकशिरसं वा संवेश्य देवतापूवं द्विजातिभ्यः प्रणमति इत्युक्त्वा कुमारस्य पिता द्वे नामनी कारयेत् नाक्षत्रिक नामाभिप्रायिकञ्च। तत्राभिप्रायिकं नाम घोषवदाद्यन्तस्थान्तमुष्मान्तञ्च वृद्धं त्रिपुरुषान्तरमनवप्रतिष्ठितम्। नानत्रिकन्तु नक्षत्रदेवतासंयुक्तं कृतं द्वानरं चतुरक्षरं वा ॥ ४५ ॥ भद्रदारुमरिचसंसृष्टं पुराणगुई वा, विकटुकचतुर्जातककुस्तुम्बुरुमिश्रं खादेदच्छे वा पिवेदरिष्टमिति । इति ॥४४॥ गङ्गाधरः-ततः किं कार्यमित्यत आह-दशमे वित्यादि। तधु चाहतश्च वस्त्रं परिहितं यया सा, तथा पवित्रञ्च इष्टञ्च लघु च भूपणं वर्त्तते यस्याः सा, तथा सचितां देवतां गणेशादिं शिखिनः शिखावतः शुक्लवाससः शुक्लवस्त्रातान् अव्यङ्गान् सर्वसम्पूर्णाङ्गान् । अहतेन नवेनाक्षुष्णेन वाससा। पाशिरसं पूर्व शिरसम् उदक शिरसम् उत्तरशिरसं वा संवेश्य शाययित्वा देवतापूर्व पूर्व देवताभ्यो नमस्कृखा द्विजातिभ्यो द्विजातीनुद्देश्य प्रणमतीत्युक्त्वा कुमारस्प पिता घोषवदाद्यन्तस्थं, घोषवन्तो वर्णाः कवर्गादीनां पञ्चानां वर्गाणामन्त्यान्त्यास्त्रयस्त्रयः। तेषामन्यतमो वो यस्यादौ अन्ते च स्थितो तत् घोपवदायन्तस्थम्। उष्मान्तञ्चेति चशब्दो वार्थे । शषसहा उप्माणः, तदन्यतमवर्णान्तम्। त्रिपुरुपान्तरं पितृपितामहप्रपितामहनामभेषजमिति दर्शयति । यदुत्पन्नव्याधौ विहितं भेषजम् तत् प्रायो न सिध्यतीति कृत्वा नेहोक्तम् । भौतिकं भूतहरम् ॥ ४४ ॥ चक्रपाणिः---उचितामिति या यस्या देवता सदा पूज्या, तामचयित्वा। शिखिन इति पावकान् । किंवा शिखा चूड़ा, तद्वतो ब्राह्मणानमुण्डान् । नक्षत्रदेवतायुक्तमिति, यस्मिन् नक्षत्रे कुमारो जातः, तस्य नक्षत्रस्य या तु देवता, तस्या नाम कर्तव्यमित्यर्थः। किंवा तु नामनी For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy