SearchBrowseAboutContactDonate
Page Preview
Page 957
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २११८ चरक संहिता | [ जातिसूत्रीयं शारीरम् तस्यास्तु खलु सूतिकाया यो व्याधिरुत्पद्यते स कुच्छ्रसाध्यो भवत्यसाध्यो वा । गर्भवृद्धिदयितशिथिल सर्व्वधातुत्वात् प्रवाहवेदना दरक्तनिःस्रु तिविशेषशून्यशरीरत्वाच्च । तस्मात् तां यथोक्तेन विधिनोपचरेत् । भौतिकजीवनीयवृहणीय-6 वातहर सिद्धैरभ्यङ्गोत्सादनपरिषेचनावगाहनान्नपानविधिभिर्विशे पतश्चोपचरेत् । विशेषता हि शून्यशरीराः स्त्रियः प्रजाता भवन्ति ॥ ४४ ॥ · Acharya Shri Kailassagarsuri Gyanmandir · गङ्गाधरः- अथ मृतिकायाः स्वास्थ्यवृत्तमुक्त्वातुर्यवृत्तमाह--तस्यास्वित्यादि । ननु कस्मात् कृच्छ्रसाध्योऽसाध्यो वेत्यत आह- गर्भेत्यादि । गर्भस्याधानात् प्रभृति वृद्ध्या क्षयिताः शिथिलाश्च सर्व्वे धातवो यस्यास्तत्त्वात् । ततः परं प्रसवकाले प्रवाहणं वेदना प्रसवयातना । क्लेदरक्तयोर्निःस्रुतिः निःशेपेण स्रावस्तेषां विशेषेण शून्यं स्नेहरहितं शरीरं यस्यास्तथात्वाच्च । यथोक्तेन पूर्वोक्तेन विधिनोपचरेत्। विशेषतश्च भौतिकादिसिद्धैरभ्यङ्गादिविधिभिरुपचरेत् । कस्माद् भौतिकादिसिद्धैरभ्यङ्गादिभिर्विशेषतः सूतिकामुपचरेदित्यत आह - विशेषतो हीत्यादि । प्रजाताः प्रमृताः स्त्रिय इति । अत्र रुक्षणे दोष उक्तः सुश्रुते - प्रजातायाश्च नार्य्या रुक्षशरीरायास्तीक्ष्णैरविशोधितं रक्तं वायुना देशगेनातिसंरुद्ध नाभेरधः पार्श्वयोर्वस्तौ वस्तिशिरसि वा ग्रन्थिं करोति । ततश्च नाभिवस्त्युदरशूलानि भवन्ति । सूचीभिरिव निस्तुद्यते भिद्यते दीर्यत इव च पक्काशयः । समन्तादाध्मानमुदरे मूत्रसङ्गश्च भवतीति मकललक्षणम् । तत्र वीरतर्थ्यादिसिद्धं जलमूषकादिप्रतीवापं पाययेत् । यवक्षारचूर्ण वा सर्पिषा सुखोदकेन वा लवणचूर्ण वा, पिप्पल्यादिकाथेन पिप्पल्यादिचूर्ण वा सुरामण्डेन वरुणादिकार्थं वा, पञ्चकोलैलामतीवापं पृथकपर्ण्यादिकार्थं वा, 1 For Private and Personal Use Only चक्रपाणिः - सूतिकाया मिथ्योपचारेण व्याधिर्भवन् कृच्छ्रसाध्योऽसाध्यो वा भवति तथा दर्शयन् यथोक्तक्रमस्यावधानेन कर्त्तव्यतां दर्शयितुमाह-तस्यास्त्वित्यादि । गर्भवृद्वा धात्वन्तरापोषणेन क्षयिताश्च शिथिलीकृताश्च सर्व्वे धातवो यस्याः सा तथा । यथा गर्भव्यपगम एव तावच्छरीरशून्यत्वे हेतुः तथा प्रवाहणवेदनाकु दरक्तनि स्रुतिविशेषो हेतुरित्याह- प्रवाहणेत्यादि । यथोक्तेनेति स्नेहपानादिना एतेन यथोक्तविधिकरणमेव दुश्चिकित्स्यस्य सूतिकाध्याधेश्च निदानवज्र्जनमुत्तमं * इतः परं मधुरेत्यधिकः पाठः क्वचिद दृश्यते ।
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy