SearchBrowseAboutContactDonate
Page Preview
Page 936
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः शारीरस्थानम् । २०६७ इति कुक्षौ मृतो गर्भो यस्याः सा मृतगर्भा। सुश्रुते तु मूढगर्भ निदानेऽप्युक्तम्ग्राम्यधर्मयानवाहनाध्वगमनप्रस्खलनप्रपतनप्रपीड़नधावनाभिघातविषमशयनासनोपवास-वेगाभिघातातिरुक्ष-कतिक्त-भोजन-शाकातिक्षारसेवनातिसारवमनविरेचनप्रेङखोलनाजीर्णगर्भशातनप्रभृतिभिर्विशेषैबन्धनान्मुच्यते गर्भः फलमिव वृन्तबन्धादभिघात विशेषैः । स विमुक्तबन्धनो गर्भाशयमतिक्रम्य यकृतप्लीहान्त्रः विवरैरवस्र समानः कोष्ठसंक्षोभमापादयति। तथा जठरस क्षोभाद् वायुरपानो मूढ़ः पाश्ववस्तिशीपोदरयोनिशूलानाहमूत्रसङ्गानामन्यतममापाय गर्भ व्यापादयति तरुणं शोणितस्रावेण । तमेव कदाचिद् विद्धमसम्यगागतमपत्यपथमनुप्राप्तमनिरस्यमानमपानवैगुण्यसम्मोहितं गर्भ मूढगर्भमित्याचक्षते। ततः स कीलः प्रतिखुरो वीजकः परिघ इति । तत्र ऊद्ध बाहुशिरःपादो यो योनिमुखं निरुणद्धि कील इव, स कीलः। निःसृतहस्तपादशिराः कायसङ्गी प्रतिखुरः। यस्तु निर्गच्छत्येकशिरोभुनः स वीजकः। परिघ इव योनिमुखमावृत्य तिष्ठेत् स परिघः। इति चतुर्विधो भवतीत्येके भाषन्ते। तत् तु न सम्यक् । कस्मात् ? स यदा विगुणानिलप्रपीड़ितोऽपत्यपथमनेकधा प्रतिपद्यते, तदा सङ्ख्या हीयते। तत्र कश्चित् द्वाभ्यां सथिभ्यां योनिमुखं प्रतिपद्यते। कश्चिदाभुग्न कसथिरकेन। कश्चिदाभुग्नसक्थिशरीरः स्फिगदेशेन तिर्यगागतः। कश्चिदुरपार्श्वपृष्ठानामन्यतमेन योनिद्वारं पिधायावतिष्ठते। अन्तःपार्श्वपरिवर्तशिराः कश्चिदेकेन बाहुना। कश्चिदाभुग्नशिराः बाहुद्रयेन। कश्चिदाभुग्नमध्यो हस्तपादशिरोभिः। कश्चिदेकेन सकना योनिमुखमभिप्रतिपद्यतेऽपरेण पायुमित्यष्टविधा मृदगर्भगतिरुद्दिष्टा समासेन। तत्र द्वावन्त्यावसाध्यौ मूढ़गभौ । शेषानपि विपरीतेन्द्रियाक्षेपकयोनिभ्रंशसंवरणमकल्लश्वासकासभ्रमनिपीड़ितान् परिहरेत् । भवन्ति चात्र । कालस्य परिणामेन मुक्तं दृन्ताद यथा फलम् । प्रपदेप्रत स्वभावेन नान्यथा पतितु फलम् ॥ एवं कालप्रकर्षण मुक्तो नाड़ीविबन्धनात् । गर्भाशयस्थो यो गौं जननाय प्रपद्यते॥ क्रिमिवाताभिघातैस्तु तदेवोपद्रुतं फलम् । पतत्यकालेऽपि यथा तथा स्याद गर्भविच्युतिः। आ चतुर्थात् ततो मासात् प्रस्रवेद गर्भविच्युतिः। ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः॥ प्रविध्यति शिरो या तु शीताङ्गी निरपत्रपा । नीलोद्धतशिरा हन्ति सा गर्भ स च तां तथा।। गर्भास्पन्दनमावीनां प्रणाशः श्यावपाण्डुता। भवत्युच्छासपूतित्वं शूलश्चान्तम ते शिशौ ॥ मानसागन्तुभिर्मातुरुपतापः प्रपीडितः। गौ व्यापद्यते कुक्षौ व्याधिभित्र प्रपीड़ितः ।। २६३ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy