________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६६
चरक-संहिता। जातिसूत्रीयं शारीरम् सलिलपरिषिक्ताङ्गी स्थैर्यकरमविदाहिनमाहारं भुक्तवतीं सायं मधुरकसिद्धेन तैलेनानुवासयेत्, न्युन्जान्त्वेनामास्थापनानुवासनाभ्यामुपचरेत् ॥ २४ ॥
यस्याः पुनरतिमात्रदोषोपचयाद्वा तीक्ष्णोष्णातिमात्रसेवनाद्वा वात-मूत्र-पुरीष-वेगधार ; विषमाशन-शयनस्थान-संपीड़न क्रोधशोकायाभयत्रासादिभिर्वा अपरैः कर्मभिरन्त कुक्षौ गर्भो म्रियते । तस्याः स्तिमितं स्तब्धमुदरमाततं शीतमश्मान्त
तमिव भवत्यस्पन्दनो गर्भः, शूलमधिकमुपजायते, न चाव्यः प्रादुर्भवन्ति, योनिर्न प्रस्त्रवत्यक्षिणी चास्याः सस्ते भवतः। ताम्यति व्ययते भ्रमते श्वसित्यरतिबहुला च भवति, न वास्या वेगप्रादुर्भावो वा यथावदुपलभ्यते, इत्येवंलक्षणां स्त्रियं मृतगर्भयमिति विद्यात् ॥२५॥ वस्तिं दद्यात्। व्यपगतविबन्धां तेन निरूहंण विवन्धं भित्वा पुरीषनिःसरणवतीमेनामष्टममासिकगर्भवती सुखसलिलम्नातां स्थैर्यकरं गर्भस्यास्थापनकरम् ऐन्द्रीब्राह्मीत्यादुक्तं तेन सिद्धमाहारं भुक्तवतीं सायं सन्ध्याकाले मधुरकसिद्धेन उक्तकाकोल्यादिकल्ककाथाभ्यां पादिकचतुर्गुणाभ्यां साधितेन तैलेनानुवासयेत्। नन्वतां किं वामपार्श्वन शयितामास्थापनानुवासनाभ्यामुपचरेदित्यत आह-न्युब्जामित्यादि । न्युब्जामनुत्तानामधोमुखेन शयितामिति यावत् ॥२४॥
गङ्गाधरः-अथान्तम तगर्भायाः प्रतिक्रियामाह--- यस्याः पुनरित्यादि। अन्तःकुक्षौ गर्भाशयाभ्यन्तरे। अन्तम तगर्भलक्षणमाह--तस्या इत्यादि। स्तिमितमाद्रव्यमिव, स्तब्धमचलत्वेन गुरु, आततं सौदरव्याप्तमिव, अश्मान्तर्गतं यस्य तदन्तर्गतप्रस्तरमिव तस्या उदरं भवति गर्भश्चास्पन्दनः। न चाव्यः आवी प्रसवकालिकशूलः। अस्या गर्भिण्या अक्षिणी स्रस्ते अधःपतिते भवतः। मृतगर्भयम् परिष्याधो वेतसभेदः । उदगमय्य रसमिति क्वाथं निःक्वाथ्य । काथादिपरिमाणञ्च निरूहपरिमाणपरिभाषयैव कर्तव्यम् । न्युब्जामित्यधोमुखीम् ॥ २२-२४ ॥ चक्रपाणि:--अश्मान्तर्गतमिति अन्तर्गतप्रस्तरमिवेत्यर्थः। आवी प्रसवकालशूलम् ।
For Private and Personal Use Only