SearchBrowseAboutContactDonate
Page Preview
Page 923
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २०८४ चरक-सीहता । [ जातिसूत्रीयं शारीरम् विश्वक्सेनकान्ता च आसामोषधीनां शिरसि दक्षिणेन पाणिना धारणम्, एताभिश्चैव सिद्धस्य पयसः सर्पिषो वा पानम्, एताभिश्चैव पुष्ये पुष्ये स्नानम्, सदा चैताभिः समालभेत । तथा सर्व्वासां जीवनीयोक्तानामोषधीनां सदोपयोगस्तैस्तैरुपयोगविधिभिः । इति गर्भस्थापनानि व्याख्यातानि भवन्ति ॥ १५ ॥ गर्भोपघातकरारित्व भावा भवन्ति । तद् यथा उत्कट - विषमस्थानकठिनासनसेविन्याः, वातमूत्रपुरीषवेगान् उपरुन्धत्याः, दारुणानुचितव्यायाम सेविन्याः, तीक्ष्णोष्णातिमात्र सेविन्याः, Acharya Shri Kailassagarsuri Gyanmandir गुडूची, शिवा हरीतकी, अरिष्टा कटुकी, वाट्यपुष्पी पीतवला, विश्वक्सेनकान्ता शतमूली, आसामोषधीनां धारणं शिरसि दक्षिणेन पाणिना कार्य्यं गर्भिण्या | एताभिरेन्द्रादिभिरोषधीभिः पयसोऽष्टमांशाभिः कल्करूपाभिः पयसोऽपि चतुर्गुणेन जलेन पयोऽवशेषः पाकस्तस्य पयसः पानम् । तथा चैताभिर्मिलिताभिरेन्द्रादिभिरोषधीभिघृतात् पादांशाभिः कल्करूपाभिघृताच्चतुर्गुणजलेन च पक्कस्य सर्पिषो वा पानम् । पुष्ये पुष्ये प्रतिपुप्यानक्षत्रे एताभिरेन्द्रनादिभिः शृतजलेन स्नानम् । सदा च प्रत्यहञ्चैताभिरैन्द्रयादिभिरोषधिभिः समालभेत उद्वत्तेनं कुर्य्यात् । तथा सर्व्वासां दशानामेव, न न्यूनानां जीवनीयोक्तानाम् । तैस्तैर्दक्षिणेन पाणिना शिरसा धारणं, ताभिः सिद्धस्य पयसः सर्पिषो वा पानम्, पुष्ये पुष्ये च ताभिः सिद्धजलेन स्नानम्, प्रत्यहञ्च जीवनीयैरुद्वर्त्तनमित्येतैर्विधिभिः । इति गर्भस्य स्थापनानि ॥ १५ ॥ गङ्गाधरः - गर्भोपघातकरास्त्वित्यादि । दारुणो व्यायामोऽतिधावनादिः । अनुचितो व्यायामोऽनभ्यस्त व्यायामः । तीक्ष्णस्य मरिचविषजयपालादेः । उष्णस्य वीर्य्यतो गुड़ च्यर्कादिः, स्पर्शतो वह्यादेः, अतिसेविन्याः । अल्पाल्पसेवनन्तु दूर्वाद्वयम् । अमोघा पाटला । rover गुड़ ची । अरिष्टा कटुरोहिणी । वाट्यपुष्पी पीतबला । विश्वकसेनकान्ता प्रियङ्गुः ॥ १५ ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy