________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः
शारीरस्थानम् ।
२०२५ स्थितकाले जन्मनि प्रसूतिमारुतयोगात् परिवृत्त्या अवाकछिराः निष्क्रामत्यपत्यपथेन। एषा प्रकृतिः, विकृतिः पुनरतोऽन्यथा। परन्तत एव स्वतन्त्रवृत्तिर्भवति ॥ १५॥
तस्याहारोपचारो जातिसूत्रीयोपदिष्टावविकारकरौ चाभिवृद्धिकरौ भवतः। ताभ्यामेव विषमाभ्यां जातः सद्य उपहन्यते तरुरिवाचिरव्यपरोपितो वातातपाभ्यामप्रतिष्ठितमूलः । __ अथ कथम्भूतश्च निष्क्रामतीति प्रश्नस्योत्तरमाह-स चोपस्थितकाल इत्यादि। स च परिपूर्णसर्लाङ्गगर्भ उपस्थितकाले जन्मनि जन्मकालोपस्थितौ प्रसूतिमारुतयोगात् प्रसूयते येन वायुना तद्वायुयोगात् परिवृत्त्या मातुः पृष्ठाभिमुख ऊर्द्ध शिराः शिरःपरिवर्तनेनाधःशिरा भूखाऽपत्यपथेन योनिपथेन निष्क्रामति निर्गच्छति । सुश्रुतेऽप्युक्तम्---शङ्खनाभ्याकृतियोनिस्त्रावर्ता सम्प्रकीर्तिता। तस्यास्तृतीये खावत गर्भशय्या प्रतिष्ठिता॥ यथा रोहितमत्स्यस्य मुखं भवति रूपतः। तत्संस्थानां तथारूपां गर्भशय्यां विदुर्बुधाः॥ आभुग्नोऽभिमुखः शेते गर्भो गर्भाशये स्त्रियाः। स योनि शिरसा याति स्वभावात् प्रसवं प्रति ॥ इति। एषा प्रकृतिः प्रसवस्य । अतोऽन्यथा मूढगौक्तप्रकारेण प्रसवो विकृतिः। इत्येवं प्राग जन्मनः परतत्रत्तिः । परन्तु अतो जन्मनः परन्तु स्वतऋत्तिर्भवत्याहारविहारादिषु, स्वेन निजेन तत्रः स्वतन्त्रः स्वाधीनः। इति चतुर्थप्रश्नोत्तरम् ॥१५॥
गङ्गाधरः-कैश्चायमाहाराचारैर्जातोऽज्याधिवद्धते, कः सद्यो हन्यत इति पञ्चमप्रश्नस्योत्तरमाह तस्येत्यादि । तस्य गर्भस्य जातस्य जातिसूत्रीयोपदिष्टा. वित्यतः परं वक्ष्यमाणाध्यायोक्ती आहारोपचारौ अविकारकरौ अभिवृद्धिकरौ च भवतः। ताभ्यामाहारोपचाराभ्यामेव विषमाभ्यां सेविताभ्यां जातः पुत्रः सद्य उपहन्यते। तत्र दृष्टान्तमाह-तरुरिवेत्यादि। यथा तरुरचिरव्यपनिष्क्रामतीत्यस्योत्तरम् स चोपस्थितकाल इत्यादि। उपस्थितकाल इति प्रत्यासन्नकाले। विकृतिरतोऽन्यथेति निर्गत्य चरणेनापि निर्गमा भवतीति दर्शयति। स्वतन्त्रवृत्तिर्भवतीति स्वयंकृतेन स्तन्यपानादिना वर्तते, न गर्भस्य इव मातुरेवाहारेण परं वर्तत इत्यर्थः ॥ १५॥
चक्रपाणिः-'कैश्वायम्' इत्यादिप्रश्नस्योत्तरम्-तस्येत्यादि। 'जातिसूत्रीयोपदिष्टौ' इत्यना. आतावेक्षणेनानागते भूतवत्प्रयोगाद बोद्धव्यम् । व्यपारोपितस्तदात्वारोपितः। किञ्चास्येत्यादि
२५४
For Private and Personal Use Only