SearchBrowseAboutContactDonate
Page Preview
Page 847
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०२४ चरक-संहिता। [ शरीरविचयशारीरम् नाभिनाड्ययनैः। नाभ्यां ह्यस्य नाड़ी प्रसक्ता, सा नाभ्याञ्च अमरा । अमरा चास्य मातुः प्रसक्ता हृदये। मातृहृदयं ह्यस्य ताममरामभिप्लवते सिराभिः स्यन्दमानाभिः। स तस्य रसो बलवर्णकरः सम्पद्यते । स च सर्व्वरसवानाहारः स्त्रिया ह्यापन्नगर्भायास्त्रिधा रसः प्रतिपद्यते स्वशरीरपुष्टये स्तन्याय गर्भवृद्धये च । स तेनाहारेणोपष्टब्धो वर्त्तयत्यन्तर्गतः। स चोप नाभिनाड्ययनै रुपस्नेहस्तं गर्भ वर्त्तयति। कथं नाभीनाड्ययनै रित्यत आहनाभ्यां हीत्यादि। हि यस्मादस्य गर्भस्य सद्भूताङ्गावयवस्य या नाभिप्रसक्ता नाड़ी सा नाभ्याश्च अमरा नाम नाड़ी। अमरा चास्य गर्भस्य मातह दये प्रसक्ता । मातृहृदयश्चास्य ताममरां गर्भनाड़ी स्वप्रसक्तां नाड़ी रसं स्यन्दमानाभिः सप्तशतसिराभिरभि व्याप्य प्लवते आप्लवते। स मातुः सिराभिः स्यन्दितो रसस्तस्य गर्भस्य बलवर्णकरः सम्पद्यते। यदि मातुराहाररसो गर्भस्य वलवर्णकरः सम्पद्यते, तहि मातुः शरीरं कथं पुष्यतीत्यत आह-स चेत्यादि। स सवेरसवान आहार आपन्नसत्त्वायाः स्त्रियाः त्रिधा रसः त्रिभागरसः सम्पद्यते। आहारपरिणतरसस्य त्रयो भागा भवन्ति, एकभागो रसः स्त्रियाः स्वशरीरपुष्टये सम्पद्यते, द्वितीयो रसभागः स्तन्याय सम्पद्यते, तृतीयो रसभागस्तु गर्भवृद्धये। तत्तृतीयं रसभागं स्यन्दमानाभिः सिराभिर्गर्भस्यामरामभिप्लवते, तेन मातरसं स्यन्दमानाभिः सिराभिरभिप्लुतया नाभिनाड्याऽभिष्यन्दितेन रसेनाहारेण गर्भ उपष्टव्धः सन्नन्तर्गतो गर्भाशये वर्त्तयतीति । तेन मूत्रपुरीषवातोत्सर्गाभावः सर्वसम्पूर्णधातुखेऽप्यल्पमूत्रपुरीषवातत्वात्। सुश्रुते चोक्तम् । मलाल्पखादयोगाच्च वायोः पक्वाशयस्य च। वातमूत्रपुरीषाणि न गर्भस्थः करोति हि ॥ इति । नाभिनाड्ययनः यमाहाररसमेवाहरति तज्जनितवातमूत्र. पुरीपाण्यल्पानि भवन्ति तेषु पकाशयसंयोगाभावादपानयोगाभावाच्च अप्रवृत्तिभवति। इति तृतीयप्रश्नस्योत्तरम् । नाभिसक्ता नाड़ी नाभिनाड़ी। अयनैरिति मार्गः। अपरा गर्भस्य नाभिनाड़ीप्रतिबद्धा 'अमरा' इति ख्याता। अभिसंप्लवते इति प्राप्नोति । एतच्चापरादिजन्म गर्भादृष्टवशाद भवति । कथंभूतोः For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy