________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०१८
चरक-संहिता। (शरीरविचयशारीरम् केचिच्छरीरे तिष्ठन्ति भावाः शरीरस्योपघातायोपपद्यन्ते, सांस्तान् मलान् ® सञ्चदमहे, इतरांस्तु प्रसादाख्यान्, गुर्बादींश्च द्रवान्तान् गुणभेदेन, रसादींश्च शुक्रान्तान् द्रव्यभेदेन ॥१०॥
तेषां सर्वेषामेव वातपित्तश्लेष्माणो दुष्टा दूषयितारो भवन्ति दोषत्वात्। वातादीनां पुनर्धात्वन्तरे कालान्तरे दुष्टानां विविधाशितपीतीयेऽध्याये विज्ञानान्युक्तानि । एतावत्येव वातपित्तश्लेष्माणः। ये चान्येऽपीति अजीर्णान्न-क्रिम्यादयस्तिष्ठन्ति तान् सर्वान् शरीरच्छिद्रेधूपदेहकरादीन् । इतरांस्तु खग्रसादीन प्रसादाख्यान् । गुणभेदेन गुर्वादीन् संचक्ष्महे। द्रव्यभेदेन रसादीन् शुक्रान्तान् सञ्चमहे। रसस्य श्रेयस्वञ्च रसशब्देन गृह्यते ॥१०॥
गङ्गाधरः-तेषामित्यादि। तेषां मलानां रसादीनाञ्च सर्वेषां दूपयितारो दुष्टा वातपित्तश्लेष्माणः। धावन्तरे कालान्तरे च दुष्टानां वातादीनान्तु ये तु उपलेपमात्रकारका गुणकर्तृतया, न ते मलाख्याः । परिपक्वाश्च धातव इति पाकात् पूयतां गताश्च शोणितादयो मलाख्याः। किंवा अपक्वाश्चेति पाठः। तदा समधातवो मलाख्या इति ज्ञेयम्। कुपिताश्चेति पदेन वातादयः सामान्येन क्षीणा वृद्धा वा गृह्यन्ते। विकृतिमानं हि धातादीनां कोपः। ये चान्येऽपीत्यादिना विमार्गगतान् पीडाकारकान् शरीरधातून् तथाजीर्णादीन् प्राहयन्ति । मल इति एकवचनं जाती। इतरानिति स्वमानस्थितपुरीषवातादीन् । पुरीषवातादयोऽपि शरीरावष्टम्भकाः प्रसाद एव गुणकर्तृत्वात् । शरीरगतान् मलप्रसादभावानभिधाय पुनर्गुणद्रव्यभेदानाह-गुर्बादींश्चेत्यादि। गुर्वादयो द्रवान्ताः पश्चादुक्ता एव । अत्र च ये मला उपधातवश्च नोक्ताः, ते गुर्वादिगुणाधारत्वेन ग्राह्याः। किंवा इतरांस्तु निर्बाधकरान् मलादीन् प्रसादे सञ्चक्ष्महे, तथा गुर्बादींश्च तथा रसादींश्च निर्विकारान् द्रव्यगुणरूपान् प्रसादे सञ्चक्ष्महे इति व्याख्येयम् ॥१०॥ ___ चक्रपाणिः-अथ यदेतत पुरीषादीनां मलत्वम्, तदूपणाय भवति। तेन तेषां दूपकत्वे हेतुमाह-तेषामित्यादि। तेषामिति पुरीषादीनां रसादीनाञ्च । दुष्टा इति स्वहेतूपचिताः। क्षीणास्तु नानादृष्टिं दोषाः कुम्वन्तीति प्रतिपादितमेव। अथ धात्वन्तराश्रयिणां बातादीनां दुष्टानां किं तल्लक्षणम्, येन ज्ञातव्या इत्याह-वातादीनामित्यादि। विज्ञानानीति लक्षणानि ।
* मलानित्यत्र मले तथा प्रसादाख्यानित्यत्र प्रसादे इति चक्रभृतः पाठः ।
For Private and Personal Use Only