SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ष्ठ अध्यायः शारीरस्थानम् । २०१७ यथास्वम् अविरुद्धाः, विरुद्धाश्च विहन्युर्विहताश्च विरोधिभिः शरीरम् ॥६॥ शरीरधातवरत्वेवं द्विविधाः संग्रहेण, मलभूताः प्रसादभूताश्च। तत्र मलभतास्ते, ये शरीरस्य बाधकराः स्युः। तद् यथा—शरीरच्छिद्र खूपदेहाः पृथगजन्मानो वहिर्मखाः परिपक्वाश्च धातवः, प्रकुपिताश्च वातपित्तश्लेष्माणो, ये चान्येऽपि उष्मवाय्वादिभिराहाररूपान्तरनिष्पत्याहारस्य ये गुणा यथास्वमविरुद्धाः समानास्ते शरीरथातूनां यद्रूपा गुणास्तद्भावं तद्रपतामापद्यन्ते प्रामु वन्ति । विरुद्धाश्च ये खाहारस्य गुणास्ते च परिणामतो विरोधिभिगुणैविहताः सन्तः शरीरं विहन्युन तु शरीरगुणभावमापद्यन्ते ॥९॥ गङ्गाधरः-शरीरेत्यादि। शरीरधातवो द्विविधाः संग्रहेण संक्षेपेण, मलभूतास्ते आहारजपुरीपादयः शरीरस्य बाधकराः। मलरूपान् शरीरधातून् विकृणोति कर्मतः। उपदेहा उपलेपरूपाः पृथगजन्मानः स्वेदसिंघाणकादिरूपेण पृथक्पृथगजन्मानः। वहिम्मुखा बहिनिःसरणोन्मुखाः परिपकाश्च पाकात् पूयतां गताश्च धातवो भवन्ति। प्रकुपिताश्च कोपमापन्नाः अथ कया परिपाटया परिणाममापद्यमान आहारो धातुसाम्यकरो भवतीत्याह-परिणामत इत्यादि। सर्वमाननिर्देशेन, यो यथा यथा आहारांशः परिणमते, स तथा तथा शरीरगुणरूपतां याति, न कृत्स्नाहारपरिणाममपेक्षत इति दर्शयति। यथास्वमविरुद्धा इति य आहारगुणा यस्मिन् शरीरगुणेऽविरुद्धाः, त एव तद्रूपतां नयन्ति। यथा-आहारस्य कठिनो भागो मांसास्थ्यादिकठिनभागपोषको भवति, द्रवांशस्तु शोणितादिरूपो भवति इत्यादि। विरुद्धास्तु विहन्युरिति शरीरगुणविरुद्धास्तु आहारगुणा विरुद्धान् गुणान् विहन्युसियेयुरित्यर्थः। अथ ते शरीरगुणा आहारगुणविहताः सन्तः किं कुर्वन्तीत्याह-विहतास्तु विरोधिभिः शरीरं विहन्युरिति योजना। विरोधिभिरिति विपरीतैराहारगुणैर्विहता इति क्षयं नीताः, किंवा विरोधिभिरिति यथा-दुग्धमत्स्यादिविरुद्धाहारैर्विहताः शरीरं हन्युः, 'च'कारात्, विरुद्धगुणैश्व क्षयं नीताः शरीरं हन्युरिति दर्शयति ॥९॥ चक्रपाणिः--अथ कतिप्रकारास्ते शरीरगुणा इत्याह-शरीरेत्यादि। संग्रहेण सङ्ख पेण । तेन विस्तरेण धातूपधात्वादिविभागेन बहवश्च भवन्ति । 'भूत'शब्दः स्वरूपे। बाधकरा इति पीड़ाकरा इत्यर्थः। पृथगजन्मान इति पीडाकारकाः सिङ्घाणकादिभेदेन नानारूपाः । वहिर्मुखाः' इत्यनेन, य एव च्छिद्रमलाः प्रभूततया वहिनिःसरणाभिमुखाः, त एव पीड़ाकर्तृत्वेन मलाख्याः। २५३ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy